ततः सत्यवतीं भीष्मं कौसल्यां च यशस्विनीम्। शुभैः पाण्डुर्जितैरर्थैस्तोषयामास भारत
ननन्द माता कौसल्या तमप्रतिमतेजसम्। जयन्तमिव पौलोमी परिष्वज्य नर्षभम्
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः। अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः
संप्रयुक्तस्तु कुन्त्या च माद्र्या च भरतर्षभ। जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः
हित्वा प्रासादनिलयं शुभानि शयनानि च। अरण्यनित्यः सततं बभूव मृगयापरः
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरः। उवास गिरिपृष्ठेषु महाशालवनेषु च
रराज कुन्त्या माद्र्या च पाण्डुः सह वने चरन्। करेण्वोरिव मध्यस्थः श्रीमान्पौरन्दरो गजः
भारतं सह भार्याभ्यां खङ्गबाणधनुर्धरम्। विचित्रकवचं वीरं परमास्त्रविदं नृपम्। देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः। उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः
तदासाद्य महारण्यं मृगव्यालनिषेवितम्। तत्र मैथुनकालस्थं ददर्श मृगयूथपम्
ततस्तं च मृगीं चैव रुक्मपुङ्खैः सुपत्रिभिः। निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः। भार्यया सह तेजस्वी मृगरूपेण सङ्गतः
स संयुक्तस्तया मृग्या मानुषीं वाचमीरयन्। क्षणेन पतितो भूमौ विललापातुरो मृगः
काममन्युवशं प्राप्ता बुद्ध्यन्तरगता अपि। वर्जयन्ति नृशंसानि पापेष्वपि रता नराः
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः। विधिपर्यागतानर्थान्प्रज्ञावान्प्रतिपद्यते
शस्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत। कामलोभाभिभूतस्य कथं ते चलिता मतिः
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता। राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि
अच्छद्मनाऽमायया च मृगाणां वध इष्यते। स एव धर्मो राज्ञां तु तद्धि त्वं किं नु गर्हसे
अगस्त्यः सत्रमासीनश्चकार मृगयामृषिः। आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे। अगस्त्यस्याभिचारेण युष्माकं विहितो वधः
न रिपून्वै समुद्दिश्य विमुञ्चन्ति नराः शरान्। रन्ध्र एषां विशेषेण वधकालः प्रशस्यते
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा। उपायैर्विविधैस्तीक्ष्णैः कस्मान्मृग विगर्हसे
नाहं घ्न्तं मृगन्राजन्विगर्हे चात्मकारणात्। मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः
सर्वभूतहिते काले सर्वभूतेप्सिते तथा। को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने
अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम्। पुरुषार्थफलं कर्तुं तत्त्वया विफलीकृतम्
पौरवाणां महाराज तेषामक्लिष्टकर्मणाम्। वंशे जातस्य कौरव्य नानुरूपमिदं तव
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम्। अस्वर्ग्यमयशस्यं चाप्यधर्मिष्ठं च भारत
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित्। नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम्
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः। निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः
किं कृतं ते नरश्रेष्ठ मामिहानागसं घ्नतः। मुनिं मूलफलाहारं मृगवेषधरं नृप