तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसंमते। `विवाहं कारायामास भीष्मः पाण्डोर्महात्मनः।' जग्राह विधिवत्पाणिं माद्र्याः पाण्डुर्नराधिपः
ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः। स्थापयामास तां भार्यां शुभे वेश्मनि भामिनीं
स ताभ्यां व्यचरत्सार्धं भार्याभ्यां राजसत्तमः। कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम्
ततः स कौरवो राजा विहृत्य त्रिदशा निशाः। जिगीषया महीं पाण्डुर्निरक्रामत्पुरात्प्रभो
स भीष्मप्रमुखान्वृद्धानभिवाद्य प्रणम्य च। धृतराष्ट्रं च कौरव्यं तथान्यान्कुरुसत्तमान्। आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोजितः
मङ्गलाचारयुक्ताभिराशीर्भिरभिनन्दितः। गजवाजिरथौघेन बलेन महताऽगमत्
स राजा देवगर्भाभो विजिगीषुर्वसुन्धराम्। हृष्टपुष्टबलैः प्रायात्पाण्डुः शत्रूननेकशः
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः। पाण्डुना नरसिंहेन कौरवाणां यशोभृता
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम्। प्रभूतहस्त्यश्वयुतां पदातिरथसंकुलाम्
आगस्कारी महीपानां बहूनां बलदर्पितः। गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः
ततः कोशं समादाय वाहनानि च भूरिशः। पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः
तथा काशिषु सुह्मेषु पुण्ड्रेषु च नरर्षभ। स्वबाहुबलवीर्येण कुरूणामकरोद्यशः
तं शरौघमहाज्वालं शस्त्रार्चिषमरिन्दमम्। पाण्डुपावकमासाद्य व्यवह्यन्त नराधिपाः
ते ससेनाः ससेनेन विध्वंसितबला नृपाः। पाण्डुना वशगाः कृत्वा कुरुकर्मसु योजिताः
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः। तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम्
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः। उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च
मणिमुक्ताप्रवालं च सुवर्णं रजतं बहु। गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान्
खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम्। कम्लाजिनरत्नानि राङ्कवास्तरणानि च। तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः
तदादाय ययौ पाण्डुः पुनर्मदितवाहनः। हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम्
शान्तनो राजसिंहस्य भरतस्य च धीमतः। प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनराहृतः
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च। ते नागपुरसिंहेन पाण्डुना करदीकृताः
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः। प्रतीतमनसो हृष्टाः पौरजानपदैः सह
प्रत्युद्ययुश्च तं प्राप्तं सर्वे भीष्मपुरोगमाः। ते नदूरमिवाध्वानं गत्वा नागपुरालयाः
आवृतं ददृशुर्हृष्टा लोकं बहुविधैर्धनैः। नानायानसमानीतै रत्नैरुच्चावचैस्तदा
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैस्तथाऽऽविभिः। नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः। यथाऽर्हं मानयामास पौरजानपदानपि
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्। पुत्रमाश्लिष्य भीष्मस्तु हर्षादश्रूण्यवर्तयत्
स तूर्यशतशङ्खानां भेरीणां च महास्वनैः। हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम्
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम्। भीष्माय सत्यवत्यै च मात्रे चोपजहार सः
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम्। सुहृदश्चापि धर्मात्मा धनेन समतर्पयत्