सत्वरूपगुणोपेता धर्मारामा महाव्रता। दुहिता कुन्तिभोजस्य पृथा पृथुललोचना
तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम्। व्यावृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम्
ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान्। पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम
ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी। ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम्
सिंहदर्पं महोरस्कं वृषभाक्षं महाबलम्। आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः
तिष्ठन्तं राजसमितौ पुरन्दरमिवापरम्। तं दृष्ट्वा साऽनवद्याङ्गी कुन्तिभोजसुता शुभा
पाण्डुं नरवरं रङ्गे हृदयेनाकुलाऽभवत्। ततः कामपरीताङ्गी सकृत्प्रचलमानसा
व्रीडमान स्रजं कुन्ती राज्ञः स्कन्धे समासजत्। तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः
यथागतं समाजग्मुर्गजैरश्वै रथैस्तथा। ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः। युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव
कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः। कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम्। स्वपुरं प्रेषयामास स राजा कुरुसत्तम
ततो बलेन महता नानाध्वजपताकिना। स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः
संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः। न्यवेशत तां भार्यां कुन्तीं स्वभवने प्रभुः
ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः। विवाहस्यापरस्यार्थे चकार मतिमान्मतिम्
सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः। बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम्
तमागतमभिश्रुत्य भीष्मं वाहीकपुङ्गवः। प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः
दत्त्वा तस्यासनं शुभ्रं पाद्यमर्घ्यं तथैव च। मधुपर्कं च मद्रेशः पप्रच्छागमनेऽर्थिताम्
तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः। आगतं मां विजानीहि कन्यार्थिनमरिन्दम
श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी। तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम्
युक्तरूपो हि संबन्धे त्वं नो राजन्वयं तव। एतत्संचिन्त्य मद्रेश गृहाणास्मान्यथाविधि
तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः। न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम
पूर्वैः प्रवर्तितं किंचित्कुलेऽस्मिन्नृपसत्तमैः। साधु वा यदि वाऽसाधु तन्नातिक्रान्तुमुत्सहे
व्यक्तं तद्भवतश्चापि विदितं नात्र संशयः। न च युक्तं तथा वक्तुं भवान्देहीति सत्तम
कुलधर्मः स नो वीर प्रमाणं परमं च तत्। तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन्
तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः। धर्म एष परो राजन्स्वयमुक्तः स्वयंभुवा
नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयं कृतः। विदितेयं च ते शल्य मर्यादा साधुसंमता
इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम्। रत्नानि च विचित्राणि शल्यायादात्सहस्रशः
गजानश्वान्रथांश्चैव वासांस्याभरणानि च। मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छुभम्
तत्प्रगृह्य धनं सर्वं शल्यः संप्रतीमानसः। ददौ तां समलङ्कृत्य स्वसारं कौरवर्षभे
स तां माद्रीमुपादाय भीष्मः सागरगासुतः। आजगाम पुरीं धीमान्प्रविष्टो गजसाह्वयम्