मञ्जूषां रत्नसंपूर्णां कृत्वा बालसमाश्रिताम्। उत्ससर्ज कुमारं तं जले कुन्ती महाबलम्
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः। पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः
नामधेयं च चक्राते तस्य बालस्य तावुभौ। वसुना सह जातोऽयं वसुषेणो भवत्विति
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत्। आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान्
तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः। नादेयं ब्राह्मणेष्वासीत्किंचिद्वसु महीतले
ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत्। आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम
प्रभातायां रजन्यां त्वामागमिष्यति वासवः। न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति
निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा। अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम
शक्रो मां विप्ररूपेण यदि वै याचते द्विज। कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः
विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम्। तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे
यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति। शक्तिं त्वमपि याचेथाः सर्वशत्रुविबाधिनीम्
एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत। कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः। कुण्डले प्रार्थयामास कवचं च महाद्युतिः
उत्कृत्याविमनाः स्वाङ्गात्कवचं रुधिरस्रवम्। कर्णौ पार्श्वे च द्वे छित्त्वा प्रायच्छत्स कृताञ्जलिः
प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा। अहो साहसमित्याह मनसा वासवो हसन्
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्। न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति
प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि
शक्तिं तस्मै ददौ शक्रो विस्मयाद्वाक्यमब्रवीत्। देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति। हत्वैकं समरे शत्रुं ततो मामागमिष्यति। इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै
प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ। कर्णो वैकर्तनश्चैव कर्मणा तेन सोऽभवत्
सत्वरूपगुणोपेता धर्मारामा महाव्रता। दुहिता कुन्तिभोजस्य पृथा पृथुललोचना
तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम्। व्यावृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम्
ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान्। पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम
ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी। ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम्
सिंहदर्पं महोरस्कं वृषभाक्षं महाबलम्। आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः
तिष्ठन्तं राजसमितौ पुरन्दरमिवापरम्। तं दृष्ट्वा साऽनवद्याङ्गी कुन्तिभोजसुता शुभा
पाण्डुं नरवरं रङ्गे हृदयेनाकुलाऽभवत्। ततः कामपरीताङ्गी सकृत्प्रचलमानसा
व्रीडमान स्रजं कुन्ती राज्ञः स्कन्धे समासजत्। तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः
यथागतं समाजग्मुर्गजैरश्वै रथैस्तथा। ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः। युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव