शस्त्रास्त्राणामभेद्यश्च भविष्यति शुचिस्मिते। नास्य किंचिददेयं च ब्राह्मणेभ्यो भविष्यति
चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति। दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति
एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह। कन्या पितृसा चाहं पुरुषार्थो न चैव मे
कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन्। तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो
एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये। योषितो हि सदा रक्ष्यास्त्वपराधेऽपि नित्यशः
वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ। संत्यज्य भयमेवेह क्रियतां सङ्गमो मम
अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे। वृथाऽऽह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः
यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम्। यदि मामवजानासि ऋषिः स न भविष्यति
मन्त्रदानेन यस्मात्त्वमवलेपेन दर्पिता। कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा
एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता। सा तु नैच्छद्वरारोहा कन्याहमिति भारत
बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी। तामर्कः पुनरेवेदब्रवीद्भरतर्षभ।।?
मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत
प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे। त्वयैव परिहार्यं स्यात्कन्याभावस्य दूषणम्
व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्षसे। मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि
एवमुक्ता ततः कुन्ती संप्रहृष्टतनूरुहा। सङ्गताऽभूत्तदा सुभ्रूरादित्येन महात्मना
प्रकाशकर्मा तपनः कन्यागर्भं ददौ पुनः।' तत्र वीरः समभवत्सर्वशस्त्रभृतां वरः
आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः। सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः। प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः
दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः। दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा
एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत्। गूहमानापचारं सा बन्धुपक्षभयात्तदा
मञ्जूषां रत्नसंपूर्णां कृत्वा बालसमाश्रिताम्। उत्ससर्ज कुमारं तं जले कुन्ती महाबलम्
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः। पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः
नामधेयं च चक्राते तस्य बालस्य तावुभौ। वसुना सह जातोऽयं वसुषेणो भवत्विति
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत्। आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान्
तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः। नादेयं ब्राह्मणेष्वासीत्किंचिद्वसु महीतले
ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत्। आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम
प्रभातायां रजन्यां त्वामागमिष्यति वासवः। न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति
निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा। अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम
शक्रो मां विप्ररूपेण यदि वै याचते द्विज। कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः
विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम्। तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे