अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम्। आराध्य वरदं देवं भगनेत्रहरं हरम्
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा। इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः
ततो गान्धारराजस्य प्रेषयामास भारत। अचक्षुरिति तत्रासीत्सुबलस्य विचारणा
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः। ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम्
गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम्। आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत
ततः सा पटमादाय कृत्वा बहुगुणं तदा। बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा
नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया। ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात्
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान्। तां तदा धृतराष्ट्राय ददौ परमसत्कृताम्। भीष्मस्यानुमते चैव विवाहं समकारयत्
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम्। पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः
गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः। तुष्टिं कुरूणां सर्वेषां जनयामास भारत
गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम्। अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत्
सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ। नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा
वृत्तेनाराध्य तान्सर्वान्गुरून्पतिपरायणा। वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत्
तस्याः सहोदरीः कन्याः पुनरेव ददौ दश। गान्धारराजः सुबलो भीष्मेण च वृतस्तदा
सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम्। तेजश्श्र्वां सुश्रवां च तथैव निकृतिं शुभाम्
शंभ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः। एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः
ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः। अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम्
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्। तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि
पितृष्वस्रीयाय स तामनपत्याय भारत। अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक्
अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे। प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने
नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने। उग्रं पर्यचरत्तत्र ब्राह्मणं संशितब्रतम्
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः। तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्
दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा। सहस्रसङ्ख्यैर्योगीन्द्रमुपचारदनुत्तमा
दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम्'। यशस्विन्यै पृथायै तदापद्धर्मान्ववेक्षया। अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। तस्य तस्य प्रभावेण तव पुत्रो भविष्यति
तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता। कन्या सती देवमर्कमाजुहाव यशस्विनी
ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा। उपतस्थे स तां कन्यां पृथां पृथुललोचनाम्
सा ददर्श तमायान्तं भास्करं लोकभावनम्। विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम्
आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम्। विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते
पुत्रस्ते निर्मितः सुभ्रु शृणु महादृक्छुभानने। आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम्