धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि। तथैव गजशिक्षायामस्त्रेषु विविधेषु च
अर्थधर्मप्रधानासु विद्यासु विविधासु च। गतः पारं यदा पाण्डुस्तदा सेनापतिः कृतः
पाण्डुर्धनुषि विक्रान्तो नरेष्वभ्यदिकोऽभवत्। अन्येभ्यो बलवानासीद्धृतराष्ट्रो महीपतिः
अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः। भीष्मेण सर्वधर्माणां प्रणेता विदुरः कृतः
सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर्युवा। भावेनागमयुक्तेन सर्वं वेदयते जगत्
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः। धर्मनित्यस्तथा राजन्धर्मं च परमं गतः
प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम्। ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम्। सर्वध्रमविदां भीष्मः पुराणां गजसाह्वयम्
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्रज्यं न प्रत्यपद्यत। पारसवत्वाद्विदुरो राजा पाण्डुर्बभूव ह
अथ शुश्राव विप्रेभ्यः कुन्तिभोजमहीपतेः। रूपयौवनसंपन्नां सुतां सागरगासुतः
सुबलस्य च कल्याणीं गान्धाराधिपतेः सुताम्। सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि
कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः। विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम्
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम्। अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक्
रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः। नोत्सादमगमच्चेदं कदाचिदिह नः कुलम्
मया च सत्यवत्या च कृष्णेन च महात्मना। समवस्थापित भूयो युष्मासु कुलतन्तुषु
तच्चैतद्वर्धते भूयः कुलं सागरवद्यथा। तथा मया विधातव्यं त्वया चैव न संशयः
श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः। सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च
कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः। उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर। सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे
भवान्पिता भावन्माता भवान्नः परमो गुरुः। तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम्
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम्। आराध्य वरदं देवं भगनेत्रहरं हरम्
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा। इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः
ततो गान्धारराजस्य प्रेषयामास भारत। अचक्षुरिति तत्रासीत्सुबलस्य विचारणा
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः। ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम्
गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम्। आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत
ततः सा पटमादाय कृत्वा बहुगुणं तदा। बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा
नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया। ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात्
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान्। तां तदा धृतराष्ट्राय ददौ परमसत्कृताम्। भीष्मस्यानुमते चैव विवाहं समकारयत्
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम्। पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः
गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः। तुष्टिं कुरूणां सर्वेषां जनयामास भारत