पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता। कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन
स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत्। अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः
कस्मिन्काले मया तत्तु कृतं ब्रूहि यथातथम्। तेनोक्तं धर्मराजेन बालभावे त्वया कृतम्
बालो हि द्वादशाद्वर्षाज्जन्मतो यत्करिष्यति। न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यति वै दिशः
अल्पेऽपराधेऽपि महान्मम दण्डस्त्वया धृतः। गरीयान्ब्राह्मणवधः सर्वभूतवधादपि
शूद्रयोनावतो धर्म मानुषः संभविष्यसि। मर्यादां स्थापयाम्यद्य लोके कर्मफलोदयाम्
आ चतुर्दशकाद्वर्षान्न भविष्यति पातकम्। परतः कुर्वतामेव दोष एव भविष्यति
एतेन त्वपराधेन शापात्तस्य महात्मनः। धर्मो विदुररूपेण शूद्रयोनावजायत
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः। दीर्घदर्शी शमपरः कुरूणां च हिते रतः
धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि।' एषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम्। कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत
ऊर्ध्वसस्याऽभवद्भूमिः सस्यानि फलवन्ति च। यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः। गन्धवन्ति च माल्यानि रसवन्ति फलानि च
वणिग्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः। शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन्
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः। प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत
धर्मक्रिया यज्ञशीलाः सत्यव्रतपरायणाः। अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा
मानक्रोधविहीनाश्च नरा लोभविवर्जिताः। अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत। द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः
प्रसादशतसंबाधं महेन्द्रपुरसन्निभम्। नदीषु वनखण्डेषु वापीपल्वलसानुषु। काननेषु च रम्येषु विजह्रुर्मुदिता जनाः
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तथा। विस्पर्धमाना व्यचरंस्तथा देवर्षिचारणैः
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः। तस्मिञ्जनपदे रम्ये कुरुभिर्बहुलीकृते
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा। बभूवुः सर्वर्द्धियुतास्तस्मिन्राष्ट्रे सदोत्सवाः
भीष्मेण धर्मतो राजन्सर्वतः परिरक्षिते। बभूव रमणीयश्च चैत्ययूपशताङ्कितः
स देशः परराष्ट्राणि विमृज्याभिप्रवर्धितः। भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम्। पौरजानपदाः सर्वे बभूवुः परमोत्सुकाः
गृहेषु कुरुमुख्यानां पौराणां च नराधिप। दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः। जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः। श्रमव्यायामकुशलाः समपद्यन्त यौवनम्
धनुर्वेदे च वेदे च गदायुद्धेऽसिचर्मणि। तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः
इतिहासपुराणेषु नानाशिक्षासु बोधिताः। वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः
वैदिकाध्ययने युक्तो नीतिशास्त्रेषु पारगः। भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः