किं कृतं कर्म धर्मेण येन शापमुपेयिवान्। कस्य शापाच्च ब्रह्मर्षेः शूद्रयोनावजायत
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः। धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः
स तीर्थयात्रां विचरन्नाजगाम यदृच्छया। संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि च। तत्राश्रमपदं कृत्वा वसति स्म महामुनिः
स आश्रमपदद्वारि वृक्षमूले महातपाः। ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः
तस्य कालेन महता तस्मिंस्तपसि वर्ततः। तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ। `तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः
यस्मिन्नावसथे शेते स मुनिः संशितव्रतः।' ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम
निधाय च भयाल्लीनास्तत्रैवानागते बले। तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः। तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्
कतरेण पथा याता दस्यवो द्विजसत्तम। तेन गच्छामहे ब्रह्मन्यथा शीघ्रतरं वयम्
तथा तु रक्षिमां तेषां ब्रुवतां स तपोधनः। न किंचिद्वचनं राजन्नब्रवीत्साध्वसाधु वा
ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम्। ददृशुस्तत्र लीनांस्तांश्चोरांस्तद्द्रव्यमेव च
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति। संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति। स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा। प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ
शूलस्थः स तु धर्मात्मा कालेन महता ततः। निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत
धारयामास च प्राणानृषींश्च समुपानयत्। शूलाग्रे तप्यमानेन तपस्तेन महात्मना
सन्तापं परमं जग्मुर्मुनयस्तपसाऽन्विताः। ते रात्रौ शकुना भूत्वा सन्निपत्त्य तु भारत। दर्शन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम्
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि। येनेह समनुप्राप्तं शूले दुःखभयं महत्
ततः स मुनिशार्दूलस्तानुवाच तपोधनान्। दोषतः कं गमिष्यामि न हि मेऽन्योपराध्यति
तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि। न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः। प्रसादयामास तदा शूलस्थमृषिसत्तमम्
यन्मयाऽपकृतं मोहादज्ञानादृषिसत्तम। प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः। कृतप्रसादं राजा तं ततः समवतारयत्
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह। अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः। कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिराचत्। पुष्पभाजनधारी स्यादिति चिन्तापरोऽभवत्
स चातितपसा लोकान्विजिग्ये दुर्लभान्परैः
अणीमाण्डव्य इति च ततो लोकेषु गीयते। स गत्वा सदनं विप्रो धर्मस्य परमार्थवित्
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुम्। किं नु तद्दुष्कृतं कर्म मया कृतमजानता
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया। शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्