परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ। आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्
तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा। सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्
नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह। प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः
धर्मराजस्य चात्रैव संवादः कृष्णया सह। संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः
समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा। प्रतिश्रुत्याथ विद्याया दानं राज्ञो महर्षिणा
गमनं काम्यके चापि व्यासे प्रतिगते ततः। अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः
महादेवेन युद्धं च किरातवपुषा सह। दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च
महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः। यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः। युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्। दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा
तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः। लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति
वनवासगतानां च पाण्डवानां महात्मनाम्। स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै
संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया। तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम्
पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा। तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनां
तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्। लोपामुद्राभिपमनमपत्यार्थमृषेस्तथा
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः। जामदग्न्यस्य रामस्य चरितं भूरितेजसः
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते। प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः। शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः। मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैवप्रकीर्तितं
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः। पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः
ततः श्येनकपोतीयमुपाख्यानमनुत्तमम्। इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासञ्शिबिं नृपम्
अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना। अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत्
नैयायिकानां मुख्येन वरुणस्यात्मजेन च। पराजितो यत्र बन्दी विवादेन महात्मना
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः। यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः। गन्धमादनयात्रा च वासो नारायणाश्रमे
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने। व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम्
कदलीषण्डमध्यस्थं हनूमन्तं महाबलम्। यत्र मन्दारपुष्पार्थे नलिनीं तामधर्षयत्
यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह। यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा
जटासुरस्य च वधो राक्षसस्य वृकोदरात्। वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम्
आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च। प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः