स तथेति प्रतिज्ञाय निश्चक्राम महायशाः। साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम्
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः। ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम
अम्बालिकां समाहूय तस्यां सत्यवती सुतम्। भूयो नियोजयामास सन्तानाय कुलस्य वै
विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे। कोन्वेष्यतीति ध्यायन्ती नियतां संप्रतीक्षते
ततस्तेनैव विधिना महर्षिस्तामपद्यत। अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम्
विवर्णा पाण्डुसंकाशा समपद्यत भारत। तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्। यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह
तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति। नाम चास्यैतदेवेह भविष्यति शुभानने
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः। ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत्
कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः।' शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम्
भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः। पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति
तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै। इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह
तं माता पुनरेवान्यमेकं पुत्रमयाचत। तथेति च महर्षिस्तां मातरं प्रत्यभाषत
ततः कुमारं सा देवी प्राप्तकालमजीजनत्। पाण्डुलक्षणसंपन्नं दीप्यमानमिव श्रिया
यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः। `तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः
कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः। अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम्
कौसल्यार्थे समाहूय पुत्रमन्यमयाचत। अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम्
एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत। नियता यदि कौसल्या भविष्यति पुनःशुभा
भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित्। तां समाधाय वै भूयः स्नुषां सत्यवती पुनः
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत्। सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा। ततःस्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम्
प्रेषयामास कृष्णाय ततः काशिपतेः सुता। सा तं त्वृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह। `वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च
कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः। तया सहोषितो राजन्महर्षिः संशितव्रतः
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि। अयं च ते शुभे गर्भः श्रेयानुदरमागतः। धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः। धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः
धर्मो विदुररूपेण शापात्तस्य महात्मनः। माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः
कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत्। प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च। तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत
एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि। जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः