तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने। बब्रूणि चैव श्मश्रूमि दृष्ट्वा देवी न्यमीलयत्
संभूव तया सार्धं मातुः प्रियचिकीर्षया। भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम्
ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह। अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति
निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः। `प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः। महाभागो महावीर्यो महाबुद्धिर्भविष्यति
तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः। किंतु मातुः स वैगुण्यादन्ध एव भविष्यति
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाऽब्रवीत्। नान्धः कुरूणां नृपतिरनुरूपस्तपोधन
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम्। `अपरस्यामपि पुनर्मम शोकविनाशनम्
तस्मादवरजं पुत्रं जनयान्यं नराधिपम्। भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी
अस्यामुत्पादयाऽपत्यं मन्नियोगाद्गुणाधिकम्।' द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि
स तथेति प्रतिज्ञाय निश्चक्राम महायशाः। साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम्
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः। ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम
अम्बालिकां समाहूय तस्यां सत्यवती सुतम्। भूयो नियोजयामास सन्तानाय कुलस्य वै
विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे। कोन्वेष्यतीति ध्यायन्ती नियतां संप्रतीक्षते
ततस्तेनैव विधिना महर्षिस्तामपद्यत। अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम्
विवर्णा पाण्डुसंकाशा समपद्यत भारत। तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्। यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह
तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति। नाम चास्यैतदेवेह भविष्यति शुभानने
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः। ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत्
कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः।' शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम्
भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः। पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति
तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै। इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह
तं माता पुनरेवान्यमेकं पुत्रमयाचत। तथेति च महर्षिस्तां मातरं प्रत्यभाषत
ततः कुमारं सा देवी प्राप्तकालमजीजनत्। पाण्डुलक्षणसंपन्नं दीप्यमानमिव श्रिया
यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः। `तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः
कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः। अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम्
कौसल्यार्थे समाहूय पुत्रमन्यमयाचत। अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम्
एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत। नियता यदि कौसल्या भविष्यति पुनःशुभा
भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित्। तां समाधाय वै भूयः स्नुषां सत्यवती पुनः
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत्। सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं