भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे। अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने। स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ। अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च
आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि। यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे
रूपयौवनसंपन्ने पुत्रकामे च धर्मतः। तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक
अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः। तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम्
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम्। भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान्
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया। संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु
अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति। नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता
कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो। तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति
यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः। विरूपतां मे सहतां तयोरेतत्परं व्रतम्
यदि मे सहते गन्धं रूपं वेषं तथा वपुः। अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम्
तस्यापि च शतं पुत्रा भवितारो न संशयः। गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः
एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा। शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता
समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः। ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम्
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम्। कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत्
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात्। व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम्
भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये। सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा
नष्टं च भारतं वंशं पुनरेव समुद्धऱ। पुत्रं जनय सुश्रोणि देवराजसमप्रभम्
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः। `एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम्। भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा
ततः सत्यवती काले वधूं स्नातामृतौ तदा। संवेशयन्ती शयने शनैर्वचनमब्रवीत्
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति। अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे। साऽचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान्
ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः। दीप्यमानेषु दीपेषु शरणं प्रविवेश ह
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः। जगाम तस्याः शयनं विपुले तपसि स्थितः
तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता। विरूप इति वित्रस्ता संकुच्यासीन्निमीलिता
विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः। सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः