पाराशर्यो महायोगी स बभूव महानृषिः। कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः। लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः। सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः
स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः। भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति
स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति। तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि
तव ह्यनुमते भीष्म नियतं स महातपाः। विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत्। `देशकालौ च जानासि क्रियतामर्थसिद्धये
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्। कामं कामानुबन्धं च विपरीतान्पृथक्पृथक्
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्। तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः
उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम्
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्। स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम्
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन। तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम्
परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत। मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च। मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत्
भवत्या यदभिप्रेतं तदहं कर्तुमागतः। शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये। स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम्
पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः। तमासनगतं माता पृष्ट्वा कुशलमव्ययम्
सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम्। मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे
तेषां पिता यथा स्वीमी तथा माता न संशयः। विधानविहितः स त्वं यथा मे प्रथमः सुतः
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः। यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे। अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने। स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ। अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च
आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि। यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे
रूपयौवनसंपन्ने पुत्रकामे च धर्मतः। तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक
अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः। तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम्
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम्। भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान्
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया। संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु