सा सत्यवति संपश्य धर्मं सत्यपरायणे। यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः
ततः सत्यवती भीष्मं वाचा संसज्जमानया। विहसन्तीव सव्रीडमिदं वचनमब्रवीत्
सत्यमेतन्महाबाहो यथा वदसि भारत। विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः
न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम्। त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः
यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः।' तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम्। `शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम्
न च विस्रम्भकथितं भवान्सूचितुमर्हति। यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ
तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल। मातरं मे जलाद्धृत्वा दाशः परमधर्मवित्
मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत्। धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम
धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम। सा कदाचिदहं तत्र गता प्रथमयौवनम्
अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः। आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम्
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा। सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः। उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च
तमहं शापभीता च पितुर्भीता च भारत। वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे
प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान्। यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान्
पुरस्तादरुणश्चैव तरुणः संप्रकाशते। येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता
उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः। पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि
अभिभूय स मां बालां तेजसा वशमानयत्। तमसा लोकमावृत्य नौगतामेव भारत
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः। तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्। द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि
कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः। तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः
विस्मिता व्यथिता चैव प्रादामात्मानमेव च। ततस्तदा महात्मा स कन्यायां मयि भारत। प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः
पाराशर्यो महायोगी स बभूव महानृषिः। कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः। लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः। सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः
स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः। भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति
स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति। तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि
तव ह्यनुमते भीष्म नियतं स महातपाः। विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत्। `देशकालौ च जानासि क्रियतामर्थसिद्धये
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्। कामं कामानुबन्धं च विपरीतान्पृथक्पृथक्
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्। तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः
उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम्