श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः। अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्
वनवासं प्रयातेषु पाण्डवेषु महात्मसु। पौरानुगमनं चैव धर्मपुत्रस्य धीमतः
अन्नौषधीनां च कृते पाण्डवेन महात्मना। द्विजानां भरणार्थं च कृतमाराधनं रवेः
धौम्योपदेशात्तिग्मांशुप्रसादादन्नसंभः। हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्
त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा। पुनरागमनं चैव धृतराष्ट्रस्य शासनात्
कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः। वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्यच
तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्। निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च
मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्। शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च
किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे। वृष्णीनामागमश्चात्र पाञ्चालानां च सर्वशः
श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्। क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना
परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ। आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्
तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा। सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्
नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह। प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः
धर्मराजस्य चात्रैव संवादः कृष्णया सह। संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः
समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा। प्रतिश्रुत्याथ विद्याया दानं राज्ञो महर्षिणा
गमनं काम्यके चापि व्यासे प्रतिगते ततः। अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः
महादेवेन युद्धं च किरातवपुषा सह। दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च
महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः। यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः। युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्। दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा
तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः। लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति
वनवासगतानां च पाण्डवानां महात्मनाम्। स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै
संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया। तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम्
पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा। तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनां
तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्। लोपामुद्राभिपमनमपत्यार्थमृषेस्तथा
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः। जामदग्न्यस्य रामस्य चरितं भूरितेजसः
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते। प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः। शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः। मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैवप्रकीर्तितं