कस्मादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते। चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान्
सोऽनुस्रोतस्तदा विप्रः प्लवमानो यदृच्छया। जगाम सुबहून्देशानन्धस्तेनोडुपेन ह
तं तु राजा बलिर्नाम सर्वधर्मविदां वरः। अपश्यन्मज्जनगतः स्रोतसाऽभ्याशमागतम्
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः। ज्ञात्वा चैवं स वव्रेऽथ पुत्रार्थे भरतर्षभ
तं पूजयित्वा राजर्षिर्विश्रान्तं मुनिमब्रवीत्।' सन्तानार्थं महाभाग भार्यासु मम मानद। पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः। तस्मैस राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिस्तदा। जनयामास धर्मात्मा पुत्रानेकादशैव तु
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः। उवाच तमृषिं राजा ममेम इति भारत
नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत्। शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः
अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव। अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम
ततः प्रसादयामास पुनस्तमृषिसत्तमम्। बलिः सुदेष्णां स्वां भार्यां तस्मै स प्राहिणोत्पुनः
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत्। भविष्यन्ति कुमारास्ते तेजसाऽऽदित्यवर्चसः
अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः। तेषां देशाः समाख्याताः स्वनामकथिता भुवि
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः। कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः
पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः। एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि। जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः। एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम्
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये। वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम्। विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः
भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम्। माता सत्यवती भीष्मं पुनरेवाभ्यभाषत
औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम्। पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु
त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत। यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ
मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते। बाल एव गतः स्वर्गं भारतो भरतर्षभ
इमे महिष्यौ तस्येह काशिराजसुते उभे। रूपयौवनसंपन्ने पुत्रकामे च भारत
धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च। आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि
असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः। त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते
अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा। उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन
जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम। इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम
यथा तु नः कुलं चैव धर्मश्च न पराभवेत्। सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि
त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि। सोपायं कुलसन्ताने वक्तुमर्हसि नः परम्
स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले। पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते