प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेक्षीति चाब्रवीत्
अहं त्वद्भरणाशक्ता जात्यन्धं ससुतं तदा। नित्यकालं श्रमेणार्ता न भरेयं महातपः
तस्मास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः। प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा
त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम्
यथेष्टं कुरु विप्रेन्द्र न भेरयं पुरा यथा
एक एव पतिर्नार्या यावज्जीवं परायणम्। मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम्
अभिगम्य परं नारी पतिष्यति न संशयः। अपतीनां तु नारीणामद्यप्रभृति पातकम्
यद्यस्ति चेद्धनं सर्वं वृथाभोगा भवन्तु ताः। अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु वै
इति तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता। गङ्गायां नीयतामेष पुत्रा इत्येवमब्रवीत्
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः। वद्ध्वोडुपे परिक्षिप्य गङ्गायां समवासृजन्
कस्मादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते। चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान्
सोऽनुस्रोतस्तदा विप्रः प्लवमानो यदृच्छया। जगाम सुबहून्देशानन्धस्तेनोडुपेन ह
तं तु राजा बलिर्नाम सर्वधर्मविदां वरः। अपश्यन्मज्जनगतः स्रोतसाऽभ्याशमागतम्
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः। ज्ञात्वा चैवं स वव्रेऽथ पुत्रार्थे भरतर्षभ
तं पूजयित्वा राजर्षिर्विश्रान्तं मुनिमब्रवीत्।' सन्तानार्थं महाभाग भार्यासु मम मानद। पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः। तस्मैस राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिस्तदा। जनयामास धर्मात्मा पुत्रानेकादशैव तु
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः। उवाच तमृषिं राजा ममेम इति भारत
नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत्। शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः
अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव। अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम
ततः प्रसादयामास पुनस्तमृषिसत्तमम्। बलिः सुदेष्णां स्वां भार्यां तस्मै स प्राहिणोत्पुनः
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत्। भविष्यन्ति कुमारास्ते तेजसाऽऽदित्यवर्चसः
अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः। तेषां देशाः समाख्याताः स्वनामकथिता भुवि
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः। कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः
पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः। एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि। जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः। एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम्
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये। वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम्। विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः
भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम्। माता सत्यवती भीष्मं पुनरेवाभ्यभाषत
औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम्। पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु