श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः। आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च।। ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वादशाधिकशततमोऽध्यायः।। 112
जामदग्न्येन रामेण पितुर्वधममृष्यता। राजा परशुना पूर्वं हैहयाधिपतिर्हतः
शतानि दशबाहूनां निकृत्तान्यर्जुनस्य वै। लोकस्याचरितो धर्मस्तेनाति किल दुश्चरः
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता। निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम्
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना। त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा
एवं निःक्षत्रिये लोके कृते तेन महर्षिणा। ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः
उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपारगैः। पाणिग्राहस्य तनय इति वेदेषु निश्चितम्
धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः। लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः
ततः पुनः समुदितं क्षत्रं समभवत्तदा। इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम्
अथोचथ्य इति ख्यात आसीद्धीमानृषिः पुरा। ममता नाम तस्यासीद्भार्या परमसंमता
उचथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम्। बृहस्पतिर्बृहत्तेजा ममतामन्वपद्यत
उवाच ममता तं तु देवरं वदतां वरम्। अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति
अयं च मे महाभाग कुक्षावेव बृहस्पते। औचथ्यो देवमत्रापि षडङ्गं प्रत्यधीयत
अमोघरेतास्त्वं चापि द्वयोर्नास्त्यत्र संभवः। तस्मादेवं गते त्वद्य उपारमितुमर्हसि
एवमुक्तस्तदा सम्यक् बृहस्पतिरुदारधीः। कामात्मानं तदात्मानं न शशाक नियच्छितुम्
स बभूव ततः कामी तया सार्धमकामया। उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत
भोस्तात मा गमः कामं द्वयोर्नास्तीह संभवः। अल्पावकाशो भगवन्पूर्वं चाहमिहागतः
अमोघरेताश्च भवान्न पीडां कर्तुमर्हति। अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः
जगाम मैथुनायैव ममतां चारुलोचनाम्। शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः
पद्भ्यामारोधयन्मार्गं शुक्रस्य च बृहस्पतेः। स्थानमप्राप्तमथ तच्छुक्रं प्रतिहतं तदा
पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः। तं दृष्ट्वा पतितं शुक्रं शशाप स रुषान्वितः
उचथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः। यन्मां त्वमीदृशे काले सर्वभूतेप्सिते सति
एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि। स वै दीर्घतमा नाम शापादृषिरजायत
बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा। जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स विद्यया
तरुणीं रुपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम्। स पुत्राञ्जनयामास गौतमादीन्महायशाः
ऋषेरुचथ्यस्य तदा सन्तानकुलवृद्धये। धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः
गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः। प्रावर्तत तदा कर्तुं श्रद्धावांस्तमशङ्कया
ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः। क्रुद्धा मोहाभिभूतास्ते सर्वे तत्राश्रमौकसः
अहोऽयं भिन्नमर्यादो नाश्रमे वस्तुमर्हति। तस्मादेनं वयं सर्वे पापात्मानं त्यजामहे
इत्यन्योन्यं समाभाष्य ते दीर्घतमसं मुनिम्। पुत्रलाभाच्च सा पत्नी न तुतोष पतिं तदा