तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर। कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते। बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे। रूपयौवनसंपन्ने पुत्रकामे च भारत
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः। मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च। दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्
तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः। इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः
असंशयं परो धर्मस्त्वया मातरुदाहृतः। त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे। स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः। यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथंचन
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः। ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम्। त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत्
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्। न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन
तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये। अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा। माता सत्यवती भीष्ममुवाच तदनन्तरम्
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम। इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा
जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम्। आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम्
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्। सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप
आत्मनश्च हितं तात प्रियं च मम भारत।' लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्। धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः। सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते
शान्तनोरपि संतानं यथा स्यादक्षयं भुवि। तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्
श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः। आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च।। ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वादशाधिकशततमोऽध्यायः।। 112
जामदग्न्येन रामेण पितुर्वधममृष्यता। राजा परशुना पूर्वं हैहयाधिपतिर्हतः
शतानि दशबाहूनां निकृत्तान्यर्जुनस्य वै। लोकस्याचरितो धर्मस्तेनाति किल दुश्चरः
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता। निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम्
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना। त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा
एवं निःक्षत्रिये लोके कृते तेन महर्षिणा। ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः
उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपारगैः। पाणिग्राहस्य तनय इति वेदेषु निश्चितम्
धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः। लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः
ततः पुनः समुदितं क्षत्रं समभवत्तदा। इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम्
अथोचथ्य इति ख्यात आसीद्धीमानृषिः पुरा। ममता नाम तस्यासीद्भार्या परमसंमता