ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः। विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः। जगामास्तमिवादित्यः कौरव्यो यमसादनम्
धर्मात्मा स तु गाङ्गेयः चिन्ताशोकपरायणः। प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत्
राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः। ऋत्विग्बिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः।। प्रसीद यज्ञसेनेह गतिर्मे भव सोमक
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी। पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत
समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते। धर्मं च पितृवंशं च मातृवंशं च भामिनी। प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्
दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे। शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः।' त्वयि पिण्डश्च कीर्तिश्च संतानश्च प्रतिष्ठितः
भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान्।' यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्। यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च। विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये। प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर। कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते। बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे। रूपयौवनसंपन्ने पुत्रकामे च भारत
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः। मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च। दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्
तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः। इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः
असंशयं परो धर्मस्त्वया मातरुदाहृतः। त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे। स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः। यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथंचन
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः। ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम्। त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत्
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्। न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन
तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये। अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा। माता सत्यवती भीष्ममुवाच तदनन्तरम्
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम। इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा
जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम्। आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम्
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्। सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप
आत्मनश्च हितं तात प्रियं च मम भारत।' लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्। धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः। सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते
शान्तनोरपि संतानं यथा स्यादक्षयं भुवि। तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्