किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति। समागम्य तु राजानो मयोक्ता राजसत्तमाः
शृण्वन्तु सर्वे राजानो मयोक्तं राजसत्तमाः। इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः
त्वत्प्रसादाद्विवाहेऽस्मिन्मा धर्मो मा पराजयेत्। प्रसीद यज्ञसेनेह गतिर्मे भव सोमक
जानामि त्वां बोधयामि राजपुत्रि विशेषतः। यथाशक्ति यथाधर्मं बलं संधारयाम्यहम्
अन्यस्मात्पार्थिवाद्यत्ते भयं स्यात्पार्थिवात्मजे। तस्यापनयने हेतुं संविधातुमहं प्रभुः
नहि शान्तनवस्याहं महास्त्रस्य प्रहारिणः। ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते
सा साधु व्रज कल्याणि न मां भीष्मो दहेद्बलात्। न प्रत्यगृह्णंस्ते सर्वे किमित्येव न वेद्म्यहम्
इत्युक्ता स्रजमासज्य द्वारि राज्ञो व्यपाद्रवत्
व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम्। तामन्वगच्छद्द्रुपदः सान्त्वं जल्पन्पुनः पुनः
स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय
एवमेव त्वया कार्यमिति स्म प्रतिकाङ्क्षते। न तु तस्यान्यथा भावो दैवमेतदमानुषम्
यश्चैनां स्रजमादाय स्वयं वै प्रतिमोक्षते। स भीष्मं समरे हन्ता मम धर्मप्रणाशनम्
तां स्रजं द्रुपदो राजा कंचित्कालं ररक्ष सः। ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत
तां शिखण्डिन्यबध्नात्तु बाला पितुरवज्ञया। तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात्
इषीकं ब्राह्मणं भीता साभ्यगच्छत्तपस्विनम्। गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी
उपचाराभितुष्टस्तामब्रवीदृषिसत्तमः। गङ्गाद्वारे विभजनं भविता नचिरादिव
तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम्। आराधयितुमीहस्व सम्यक्परिचरस्व तम्
अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने। तं तदाचर भद्रं ते स ते श्रेयो विधास्यति
ततो विभजनं तत्र गन्धर्वाणामवर्तत। तत्र द्वाववशिष्येतां गन्धर्वावमितौ जसौ
तयोरेकः समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह। इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते
नियमं चक्रतुस्तत्र स्त्री पुमांश्चैव तावुभौ। ततः पुमान्समभवच्छिखण्डी परवीरहा
स्त्री भूत्वा ह्यपचक्राम स गन्धर्वो मुदान्वितः। लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर्महायशाः
ततो बुद्बुदकं गत्वा पुनरस्त्राणि सोऽकरोत्। तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहाद्युतिः
स्वदेशमभिसंपदे पाञ्चालं कुरुनन्दन। सोऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः
उवाच भवता भीष्मान्न भेतव्यं कथंचन
अम्बायां निर्गतायां तु भीष्मः शान्तनवस्तदा। न्यायेन कारयामास राज्ञो वैवाहिकीं क्रियाम्
अम्बिकाम्बालिके चैव परिणीयाग्निसंनिधौ। `तयोः पाणी गृहीत्वा तु कौरव्यो रूपदर्पितः।' विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत
ते चापि बृहतीश्यामे नीलकुञ्चितमूर्धजे। रक्ततुङ्गनखोपेते पीनश्रोणिपयोधऱे
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते। विचित्रवीर्यं कल्याण्यौ पूजयामासतुः शुभे
अन्योन्यं प्रति सक्ते च एकभावे इव स्थिते।' स चाश्विरूपसदृशो देवतुल्यपराक्रमः। सर्वासामेव नारीणां चित्तप्रमथनो रहः