एषा पुष्करिणी दिव्या यथावत्समुपस्थिता। अम्बे त्वच्छोकशमनी माला भुवि भविष्यति
एतां चैव मया दत्तां मालां यो धारयिष्यति। सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति
अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः। साहं धर्माच्च कामाच्च विहीना शोकधारिणी
अपतिः क्षत्रियान्सर्वानाक्रन्दामि समन्ततः। इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति
अहं च भार्या तस्य स्यां यो भीष्मं घातयिष्यति। तस्याश्चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः
नाभवच्छरणं कश्चित्क्षत्रियो भीष्मजाद्भयात्। अगच्छत्सोमकं साऽम्बा पाञ्चालेषु यशस्विनम्
सत्यसन्धं महेष्वासं सत्यधर्मपरायणम्। सा सभाद्वारमागम्य पाञ्चालैरभिरक्षितम्
पाञ्चालराजमाक्रन्दत्प्रगृह्य सुभुजा भुजौ। भीष्मेण हन्यमानां मां मज्जन्तीमिव च ह्रदे
यज्ञसेनाभिधावेह पाणिमालम्ब्य चोद्धर। तेन मे सर्वधर्माश्च रतिभोगाश्च केवलाः
उभौ च लोकौ कीर्तिश्च समूलौ सफलौ हृतौ। ***न्त्येवं न विन्दामि राजन्यं शरणं क्वचित्
किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति। समागम्य तु राजानो मयोक्ता राजसत्तमाः
शृण्वन्तु सर्वे राजानो मयोक्तं राजसत्तमाः। इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः
त्वत्प्रसादाद्विवाहेऽस्मिन्मा धर्मो मा पराजयेत्। प्रसीद यज्ञसेनेह गतिर्मे भव सोमक
जानामि त्वां बोधयामि राजपुत्रि विशेषतः। यथाशक्ति यथाधर्मं बलं संधारयाम्यहम्
अन्यस्मात्पार्थिवाद्यत्ते भयं स्यात्पार्थिवात्मजे। तस्यापनयने हेतुं संविधातुमहं प्रभुः
नहि शान्तनवस्याहं महास्त्रस्य प्रहारिणः। ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते
सा साधु व्रज कल्याणि न मां भीष्मो दहेद्बलात्। न प्रत्यगृह्णंस्ते सर्वे किमित्येव न वेद्म्यहम्
इत्युक्ता स्रजमासज्य द्वारि राज्ञो व्यपाद्रवत्
व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम्। तामन्वगच्छद्द्रुपदः सान्त्वं जल्पन्पुनः पुनः
स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय
एवमेव त्वया कार्यमिति स्म प्रतिकाङ्क्षते। न तु तस्यान्यथा भावो दैवमेतदमानुषम्
यश्चैनां स्रजमादाय स्वयं वै प्रतिमोक्षते। स भीष्मं समरे हन्ता मम धर्मप्रणाशनम्
तां स्रजं द्रुपदो राजा कंचित्कालं ररक्ष सः। ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत
तां शिखण्डिन्यबध्नात्तु बाला पितुरवज्ञया। तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात्
इषीकं ब्राह्मणं भीता साभ्यगच्छत्तपस्विनम्। गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी
उपचाराभितुष्टस्तामब्रवीदृषिसत्तमः। गङ्गाद्वारे विभजनं भविता नचिरादिव
तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम्। आराधयितुमीहस्व सम्यक्परिचरस्व तम्
अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने। तं तदाचर भद्रं ते स ते श्रेयो विधास्यति
ततो विभजनं तत्र गन्धर्वाणामवर्तत। तत्र द्वाववशिष्येतां गन्धर्वावमितौ जसौ
तयोरेकः समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह। इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते