सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः। व्यसृजत्सायकांस्तूर्णं रुक्मपुङ्खाञ्शिलाशितान्
ते शऱा नतपर्वाणो भैमसेनिविनिर्भिदः। रुषिताः पन्नगा यद्वद्योधमुख्यानुपागमन्
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान्। प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः
स विध्यमानः समरे पाण्डवैर्जितकाशिभिः। `*नाभ्यपद्यत कर्तव्यमार्श्यशृङ्गिर्महाबलः
घटोत्कचं महाराज शरवर्षैरवाकिरत्। दग्धाद्रिकूटसदृशं तमञ्जनचयोपरमम्
घटोत्कचोऽप्यसम्भ्रान्तः शरवर्षं महत्तरम्। अलम्बुसवधप्रेप्सुर्मुमोचाग्निरिव ज्वलन्
अलम्बुसवधाच्चोग्राद्धटोत्कचवधादपि। शराः प्रादुर्भवन्ति स्म द्विरेफा इव शाखिनः
अभ्रच्छायेव रचिता बाणैस्तत्र नरेश्वर। न स्म विज्ञायते किञ्चिदन्धकारे कृते शरैः
तत आकर्णमुक्तेन भल्लेन च घटोत्कचः। अलम्बुसस्य चिच्छेद शिरो यन्तुर्महाबलः
ततोऽपरैर्वेगवद्भिः क्षुरैस्तस्य घटोत्कचः। अक्षमीषां युगं चैव चिच्छेद युधि ताडयन्
अवस्कन्द्य रथात्तूर्णं कैर्मीरः क्रोधमूर्च्छितः। तस्मिन्मायामयं घोरमस्त्रवर्षं ववर्ष ह
घटोत्कचोऽप्याशु रथात्प्रस्कन्द्य स तमेव च। मायास्त्रेणैव मायास्त्रं व्यधमत्समरे रिपोः
हैडिम्बेनार्द्यमानस्तु युधि सोऽलम्बुसोऽद्रवत्। अन्तर्हितो महाराज घटोत्कचमयोधयत्
अन्तर्धानगतं दृष्ट्वा तत्रतत्र घटोत्कचः। गदया ताडयामास वेगवत्या महाबलः
उत्पपात ततो व्योम्नि प्रहारपरिपीडितः। अलम्बुसो राक्षसेन्द्रः सहसा पक्षिराडिव
घटोत्कचोऽप्यसम्भ्रान्तः खङ्गपाणिरथोत्पतत्। ततो वेगेन महता विवर्षिषुरिवाम्बुदः
तमापतन्तं सम्प्रेक्ष्य कैर्मीरी राक्षसोत्तमः। अभिदुद्राव वेगेन सिंहः सिंहमिव स्थितम्
दक्षिणेनासिमुद्यम्य वक्षः प्रच्छाद्य वर्मणा। अभिदुद्राव वेगेन वेगवन्तं घटोत्कचः
तावुभौ वेगसंरब्धावलम्बुसघटोत्कचौ। अन्योन्यस्य तथैवोरू समाजघ्नतुरञ्जसा
अन्योन्यस्याभिघातेन तयो राक्षससिंहयोः। शैलेनाभिहतस्येव शैलस्याभून्महास्वनः
ततोऽपसृत्य सहसा पुनरापेततुर्भृशम्। चरन्तावसिमार्गांस्तान्विविधान्राक्षसोत्तमौ
तयोर्गात्रेषु पतितावसी भिन्नौ निपेततुः। वेगोत्सृष्टे मघवता वज्रे शैलतटेष्विव
ततः सैन्यानि ददृशुस्तद्युद्धमतिदारुणम्। युद्धं तयो राक्षसयोरामिषे श्येनयोरिव
ततो लोहितरक्ताक्षावुभौ तौ राक्षसोत्तमौ। तथैक्ष्येतां तु शार्दूलौ सन्ध्यारक्ताविवाम्बुदौ
चक्राते श्येनवच्चैव मण्डलानि सहस्रशः। उभौ निस्त्रिंशहस्तौ तौ सपक्षाविव पक्षिणौ
भ्रामयित्वा तु तं खङ्गं पाण्डोः किर्मीरनन्दनः। चिक्षेपास्य शिरो हर्तुं स च तस्य घटोत्कचः
तावसी युगपद्दीप्तौ समेत्य विपुलौ भुवि। पतितौ तौ तु बाहुभ्यां राक्षसौ समसज्जताम्
शीर्षाघातांसधातैश्च परस्परमथाहतौ। पुनर्विमिश्रितौ वीरौ व्यायुध्येते मुहुर्मुहुः
भैमसेनिरथोत्क्षिप्य समाविध्य पुनः पुनः। निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च। भैमसेनिरथ क्रुद्धः सर्वसैन्यस्य पश्यतः