तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः। नामृष्यत यथा नागस्तलशब्दं समीरितम्
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः। सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः
ततः शरसहस्राणि प्रादुरासन्समन्ततः। तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत्
तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे। राक्षसस्य महामायां हत्वा राक्षसमार्दयत्
स वध्यमानो बहुधा भीमसेनेन राक्षसः। सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत्
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना। अनादयन्सिंहनादैः पाण्डवाः सर्वतो दिशम्
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम्। प्रहादमिव दैतेया यथा शक्रं मरुद्गणाः
ततः प्रतिहते चक्रे स वीरो रोषसंकुलः। प्राहिणोत्तरसा शूलं शक्तीर्दशशतं तदा
ज्वलन्तीश्च किरन्तीश्च ज्वालामालाः समन्ततः। युगान्तोल्कानिभास्तीक्ष्णा हेमदण्डा महास्वनाः
ताश्चापतन्तीः सम्प्रेक्ष्य राक्षसस्य घटोत्कचः। अर्धचन्द्रैः प्रचिच्छेद नाराचैः कङ्कपत्रिभिः
ततो रोषपरीताङ्गः प्रमुमोच स राक्षसः। शरवर्षं महाघोरं घटोत्कचरथं प्रति
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः। कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत्
तयोर्युद्धं समभवद्रक्षोग्रामणिमुख्ययोः। यादृगेव पुरा वृत्तं रामरावणयोः प्रभो
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे। अलम्बुसमथो विद्धा सिंहवद्व्यनदन्मुहुः
तथैवालम्बुसो राजन्हैडिम्बिं युद्धदुर्मदम्। विद्व्वा विद्वृऽनदद्वृष्टः पूरयन्खं समन्ततः
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ। निर्विशेषमयुध्येतां मायाभिरितरेतरम्
मायाशतसृजौ नित्यं मोहयन्तौ परस्परम्। मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम्
यांयां घटोत्कचो युद्धे मायां दर्शयते नृप। तां तामलम्बुसो राजन्माययैव निजघ्निवान्
तं तथा युध्यमानं तु मायायुद्धविशारदम्। अलम्बुसं राक्षसेन्द्रं दृष्ट्वाऽक्रुध्यन्त पाण्डवाः
त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः। अभ्यद्रवन्त सङ्कुद्धा भीमसेनादयो नृप
त एनं कोष्ठकीकृत्य रथवंशेन मारिष। सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम्
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया। तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः
स विष्फार्य अनुर्धोरमिन्द्राशनिसमस्वनम्। मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः
युधिष्ठिरं त्रिभिर्विद्धा सहदेवं च सप्तभिः। नकुलं च त्रिसप्तत्या द्रोपदेयांश्च मारिष। पञ्चभिःपञ्चभिर्विद्ध्वा घोरं नादं ननाद ह
तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः। युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत। नकुलस्तु चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः। पुनर्विव्याध सप्तत्या ननाद च महाबलः
तस्य नादेन महता कम्पितेयं वसुन्धरा। सपर्वतवना राजन्सपादपजलाशया
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः। प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः। हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः