भज्यमानं बलं राजन्सात्वतेन महात्मना। नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी। सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्च्छितः। विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्। अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः। शुशुभे सर्वतो राजन्प्रफुल्ल इव किंशुकः
स वध्यमानः समरे भीमचापच्युतैः शरैः। स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना। घोरं रूपमथो कृत्वा भीमसेनमभाषत
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम्।। बाको नाम सुदुर्बुद्धे राक्षसप्रवरो बली
परोक्षं मम तद्वृत्तं यद्धाता मे हतस्त्वया
एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा। महता शरवर्षेण भृशं तं समवाकिरत्
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा। आकाशं पूरयामास शरैः सन्नतपर्वभिः
स वध्यमानो भीमेन निमेषाद्रथमास्थितः। जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत्
उच्चावचानि रूपाणि चकार सुबहूनि च। अणुर्बृहत्पुनः स्थूलो नादान्मुञ्चन्निवाम्बुदः
[निपेतुर्गगनाचत्चैव शरधाराः सहस्रशः। शक्तयः कणपाः प्रासाः शूलपट्टसतोमराः
शतघ्न्यः परिघाश्चैव भिण्डिपालाः परश्वथाः। शिलाः खङ्घा गुडाश्चैव ऋष्टीर्वज्राणि चैव ह
सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा। जघान पाण्डुपुत्रस्य सैनिकान्रणमूर्धनि।।]
उच्चावचास्तथा वाचो व्याजहार समन्ततः। तेन पाण्डवसैन्यानां सूदिता युधि वारणाः
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः। रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्। छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम्
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम्। वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान्
तं तथा समरे राजन्विचरन्तमभीतवत्। पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम्
तावकानां तु सैन्यानां प्रहर्षः समजायत। वादित्रनिनदश्चोग्रः सुमहान्रोमहर्षणः
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः। नामृष्यत यथा नागस्तलशब्दं समीरितम्
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः। सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः
ततः शरसहस्राणि प्रादुरासन्समन्ततः। तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत्
तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे। राक्षसस्य महामायां हत्वा राक्षसमार्दयत्
स वध्यमानो बहुधा भीमसेनेन राक्षसः। सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत्
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना। अनादयन्सिंहनादैः पाण्डवाः सर्वतो दिशम्
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम्। प्रहादमिव दैतेया यथा शक्रं मरुद्गणाः
ततः प्रतिहते चक्रे स वीरो रोषसंकुलः। प्राहिणोत्तरसा शूलं शक्तीर्दशशतं तदा
ज्वलन्तीश्च किरन्तीश्च ज्वालामालाः समन्ततः। युगान्तोल्कानिभास्तीक्ष्णा हेमदण्डा महास्वनाः
ताश्चापतन्तीः सम्प्रेक्ष्य राक्षसस्य घटोत्कचः। अर्धचन्द्रैः प्रचिच्छेद नाराचैः कङ्कपत्रिभिः