हृतो राजा हृतो राजा भारद्वाजेन मारिष। इत्यांसीत्सुमहाञ्शब्दः पाण्डूसैन्यस्य सर्वतः
ततस्त्वरितमारुह्य सहदेवरथं नृपः। अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः
माद्रेयस्तु ततः क्रुद्धो दुर्मुखं च शितैः शरैः। भ्राता भ्रातरमायत्तो विव्याध प्रहसन्निव
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम्। दुर्मुखो नवभिर्बाणैस्ताडयामास भारत
दुर्मुखस्य तु भल्लेन च्छित्त्वा केतुं महाबलः। जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः
अथापरेण भल्लेन पीतेन निशितेन ह। चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम्
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः। सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा। आरुरोह रथं राजन्निरमित्रस्य भारत
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे। जघान पृथुधारेण भल्लेन परवीरहा
स पपात रथोपस्थान्निरमित्रो जनेश्वरः। त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम्
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत। यथा दाशरथी रामः खरं हत्वा महाबलम्
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर। राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम्
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम्। मुहूर्ताज्जितवाँल्लोके तदद्भुतमिवाभवत्
सात्यकिं व्याघ्रदत्तस्तु शरैः सन्नतपर्वभिः। चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत्। साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत्
कुमारे निहते तस्मिन्मागधस्य सुते प्रभो। मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन्
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः। मिण्डिपालांस्तथा प्रासान्मुद्रान्मुसलानपि।। अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम्
तांस्तु सर्वान्स बलवान्सात्यकिर्युद्धदुर्मदः। नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभः
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः। बलं तेऽभज्यत विभो युयुधानशरार्दितम्
नाशयित्वा रणे सैन्यं त्वदीयं तु समन्ततः। विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः
भज्यमानं बलं राजन्सात्वतेन महात्मना। नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी। सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्च्छितः। विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्। अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः। शुशुभे सर्वतो राजन्प्रफुल्ल इव किंशुकः
स वध्यमानः समरे भीमचापच्युतैः शरैः। स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना। घोरं रूपमथो कृत्वा भीमसेनमभाषत
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम्।। बाको नाम सुदुर्बुद्धे राक्षसप्रवरो बली
परोक्षं मम तद्वृत्तं यद्धाता मे हतस्त्वया
एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा। महता शरवर्षेण भृशं तं समवाकिरत्
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा। आकाशं पूरयामास शरैः सन्नतपर्वभिः
स वध्यमानो भीमेन निमेषाद्रथमास्थितः। जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत्