विनिश्चित्य स धर्मज्ञो ब्राह्मणैर्वेदपारगैः। अनुजज्ञे तदा ज्येष्ठामम्बां काशिपतेः सुताम्
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे। भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा
तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः। विचित्रवीर्यो धर्मात्मा नाम्बामैच्छत्कथंचन
पापस्य फलमेवैष कामोऽसाधुर्निरर्थकः। परतन्त्रोपभोगो मामार्य नाऽऽयोक्तुमर्हसि
प्रातिष्ठच्छान्तनोर्वंशस्तात यस्य त्वमन्वयः। अकामवृत्तो धर्मात्मन्साधु मन्ये मतं तव
इत्युक्त्वाम्बां समालोक्य विधिवद्वाक्यमब्रवीत्। विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते
नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम्। अन्यबावगतां चापि को नारीं वासयेद्गृहे
अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम्। अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि
इत्युक्ता सा गता तत्र सखीभिः परिवारिता
निर्दिष्टा हि शनै राजन्साल्वराजपुरं प्रति। अथाम्बा साल्वंमागम्य साऽब्रवीत्प्रतिपूज्य तं
पुरा निर्दिष्टभावा त्वामागतास्मि वरानन। देवव्रतं समुत्सृज्य सानुजं भरतर्षभम्
प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम्
तयैवमुक्तः साल्वोपि प्रहसन्निदमब्रवीत्। निर्जिताऽसीह भीष्मेण मां विनिर्जित्य राजसु
अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात्। न गृह्णामि वरारोहे तत्र चैव तु गम्यताम्
इत्युक्ता सा समागम्य कुरुराज्यमनुत्तमम्। अम्बाब्रवीत्ततो भीष्मं त्वयाऽहं सहसा हृता
क्षत्रधर्ममवेक्षस्व त्वं भर्ता मम धर्मतः। यां यः स्वयंवरे कन्यां निर्जयेच्छौर्यसंपदा
राज्ञः सर्वान्विनिर्जित्य स तामुद्वाहयेद्ध्रुवम्। अतस्त्वमेव भर्ता मे त्वयाऽहं निर्जिता यतः
तस्माद्वहस्व मां भीष्म निर्जितां संसदि त्वया। ऊर्ध्वरेता ह्यहमिति प्रत्युवाच पुनःपुनः
भीष्मं सा चाब्रवीदम्बा यथाजैषीस्तथा कुरु। एवमन्वगमद्भीष्मं षट्समाः पुष्करेक्षणा
ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम्। तमेव साल्वं गच्छ त्वं यः पुरा मनसा वृतः
अन्यसक्तं किमर्थं त्वमात्मानमवदः पुरा। अन्यसक्तां वधूं कन्यां वासयेत्स्वगृहे न हि
नाहमुद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे। विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति
भूयः साल्वं समभ्येत्य राजन्गृह्णीष्व मामिति। नाहं गृह्णाम्यन्यजितामिति साल्वनिराकृता
ऊर्ध्वरेतास्त्वहमिति भीष्मेण च निराकृता। अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः
गमनागमनेनैवमनैषीत्षट् समा नृप। अश्रुभिर्भूमिमुक्षन्ती शोचन्ती सा मनस्विनी
पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा। श्रोणीभरालसगमा राकाचन्द्रनिभानना
वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा। सा ततो द्वादश समा बाहुदामभितो नदीम्। पार्श्वे हिमवतो रम्ये तपो घोरं समाददे
संक्षिप्तकरणा तत्र तप आस्थाय सुव्रता। पादाङ्गुष्ठेन साऽतिष्ठदकम्पन्त ततः सुराः
तस्यास्तत्तु तपो दृष्ट्वा सुराणां क्षोभकारकम्। विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिमान्
अनन्तसेनो भगवान्कुमारो वरदः प्रभुः। मानयन्राजपुत्रीं तां ददौ तस्यै शुभां स्रजम्