विद्व्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः। क्षुरप्रेण सुतीक्ष्णेन चिच्छेदास्य महद्धनुः
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः। गदां चिक्षेप सहसा धर्मपुत्राय मारिष
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः। गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तप
ते गदे सहसा मुक्ते समासाद्य परस्परम्। सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष। चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः
चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम्। केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः
हताश्वात्तुल रथात्तूर्णमवप्लुत्य युधिष्ठिरः। तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ
विरथं तं समालोक्य व्यायुधं च विशेषतः। द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो
मुञ्चंश्चेषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः। अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना। हाहेति सुमहाञ्शब्दः पाण्डूनां समजायत
हृतो राजा हृतो राजा भारद्वाजेन मारिष। इत्यांसीत्सुमहाञ्शब्दः पाण्डूसैन्यस्य सर्वतः
ततस्त्वरितमारुह्य सहदेवरथं नृपः। अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः
माद्रेयस्तु ततः क्रुद्धो दुर्मुखं च शितैः शरैः। भ्राता भ्रातरमायत्तो विव्याध प्रहसन्निव
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम्। दुर्मुखो नवभिर्बाणैस्ताडयामास भारत
दुर्मुखस्य तु भल्लेन च्छित्त्वा केतुं महाबलः। जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः
अथापरेण भल्लेन पीतेन निशितेन ह। चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम्
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः। सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा। आरुरोह रथं राजन्निरमित्रस्य भारत
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे। जघान पृथुधारेण भल्लेन परवीरहा
स पपात रथोपस्थान्निरमित्रो जनेश्वरः। त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम्
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत। यथा दाशरथी रामः खरं हत्वा महाबलम्
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर। राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम्
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम्। मुहूर्ताज्जितवाँल्लोके तदद्भुतमिवाभवत्
सात्यकिं व्याघ्रदत्तस्तु शरैः सन्नतपर्वभिः। चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत्। साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत्
कुमारे निहते तस्मिन्मागधस्य सुते प्रभो। मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन्
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः। मिण्डिपालांस्तथा प्रासान्मुद्रान्मुसलानपि।। अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम्
तांस्तु सर्वान्स बलवान्सात्यकिर्युद्धदुर्मदः। नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभः
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः। बलं तेऽभज्यत विभो युयुधानशरार्दितम्
नाशयित्वा रणे सैन्यं त्वदीयं तु समन्ततः। विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः