[प्रयत्नज्ञो हि कौन्तयो नखमांसान्तरेषुभिः। स वेदनाभिराविग्नः पलायनपरायणः।।]
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः। समापेतुः परीप्सन्तो धनञ्जयशरार्दितम्
तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः। पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम्
अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत। अस्त्रवर्षेण महता शरौघैश्चापि संवृतौ
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्। तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्। स रथः स्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्। धनुर्विष्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम्
ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्। महता शरवर्षेण तलशब्देन चार्जुनः
पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः। रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम्
तेनाच्युतोष्ठपुटपूरितमारुतेन शङ्खान्तरोदरविवृद्धविनिःसृतेन। नादेन सासुरवियत्सुरलोकपाल-- मुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम्
तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च। निःसत्वाश्च ससत्वाश्च क्षितौ पेतुस्तदा जनाः
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः। जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु। चक्रुर्नादान्महेष्वासाः कम्पयन्तो वसुन्धराम्
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिःस्वनैः। प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्। प्रदध्मतुः शङ्खवरौ वासुदेवधनञ्जयौ
तेन शब्देन महता पूरितेयं वसुन्धरा। सशैला सार्णवद्वीपा सपाताला विशाम्पते
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश। प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ। सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः
अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ। अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत्
सौमदत्तिं त्रिभिर्विद्व्वा शल्यं च दशभिः शरैः। शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः
गौतमं पञ्चविंशत्या सैन्धवं च शतेन ह। पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत्
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः। अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह
ततः शरशतैस्तीक्ष्णैस्तानरीन्श्वेतवाहनः। प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव
छित्त्वा तु ताञ्शरान्राजक्रोधसंरक्तलोचनः। शक्तं जग्राह समरे गिरीणामपि दारिणीम्। स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम्
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली। नादेन सर्वभूतानि त्रासयन्निव भारत
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे। स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन्
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा। प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा। द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा
तामापतन्तीं सहसा दृष्ट्वा द्रोणो विशाम्पते। प्रादुश्चक्रै ततो ब्राह्ममस्त्रमस्त्रविदां वरः
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम्। जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम्। अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष