तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ। हतो राजा हतो राजेत्यूचिरे च भयार्दिताः
जनस्य सन्निनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्। व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः। पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत्
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं पार्थिवमेव च। तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना
यद्बलं तव वीर्यं च केशवस्य तथैव च। तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम्
अस्मत्परोक्षं कर्माणि कृतानि प्रवदन्ति ते। स्वामिसत्कारयुक्तानि यानि तानीह दर्शय
ततः क्रुद्धो रणे पार्थः सृक्विणी परिसंलिहन्। नापश्यच्च ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम्
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः। हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी
धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान्। रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्। आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा
[प्रयत्नज्ञो हि कौन्तयो नखमांसान्तरेषुभिः। स वेदनाभिराविग्नः पलायनपरायणः।।]
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः। समापेतुः परीप्सन्तो धनञ्जयशरार्दितम्
तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः। पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम्
अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत। अस्त्रवर्षेण महता शरौघैश्चापि संवृतौ
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्। तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्। स रथः स्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्। धनुर्विष्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम्
ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्। महता शरवर्षेण तलशब्देन चार्जुनः
पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः। रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम्
तेनाच्युतोष्ठपुटपूरितमारुतेन शङ्खान्तरोदरविवृद्धविनिःसृतेन। नादेन सासुरवियत्सुरलोकपाल-- मुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम्
तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च। निःसत्वाश्च ससत्वाश्च क्षितौ पेतुस्तदा जनाः
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः। जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु। चक्रुर्नादान्महेष्वासाः कम्पयन्तो वसुन्धराम्
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिःस्वनैः। प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्। प्रदध्मतुः शङ्खवरौ वासुदेवधनञ्जयौ
तेन शब्देन महता पूरितेयं वसुन्धरा। सशैला सार्णवद्वीपा सपाताला विशाम्पते
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश। प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ। सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः
अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ। अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत्
सौमदत्तिं त्रिभिर्विद्व्वा शल्यं च दशभिः शरैः। शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः