तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ। न चकार भयं प्राप्ते भये महति मारिष
तदस्य क्षत्रियाः कर्म सर्व एवाभ्यपूजयन्। यदर्जुनहृषीकेशौ प्रत्युद्यातौ न्यवारयत्
ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते। महानादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति। कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत्
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना। संरम्भमगमद्भूयः स च तस्मिन्परन्तपः
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ। अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष। प्रहसन्नेव पुत्रस्ते योद्धुकामः समाह्वयत्
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः। व्यक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयास्तु सर्वशः। निराशाः समपद्यन्त पुत्रस्य तव जीविते
शोकमापुः परं चैव कुरवः सर्व एव ते। अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम्
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ। हतो राजा हतो राजेत्यूचिरे च भयार्दिताः
जनस्य सन्निनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्। व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः। पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत्
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं पार्थिवमेव च। तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना
यद्बलं तव वीर्यं च केशवस्य तथैव च। तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम्
अस्मत्परोक्षं कर्माणि कृतानि प्रवदन्ति ते। स्वामिसत्कारयुक्तानि यानि तानीह दर्शय
ततः क्रुद्धो रणे पार्थः सृक्विणी परिसंलिहन्। नापश्यच्च ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम्
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः। हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी
धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान्। रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्। आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा
[प्रयत्नज्ञो हि कौन्तयो नखमांसान्तरेषुभिः। स वेदनाभिराविग्नः पलायनपरायणः।।]
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः। समापेतुः परीप्सन्तो धनञ्जयशरार्दितम्
तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः। पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम्
अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत। अस्त्रवर्षेण महता शरौघैश्चापि संवृतौ
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्। तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्। स रथः स्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्। धनुर्विष्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम्
ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्। महता शरवर्षेण तलशब्देन चार्जुनः
पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः। रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम्
तेनाच्युतोष्ठपुटपूरितमारुतेन शङ्खान्तरोदरविवृद्धविनिःसृतेन। नादेन सासुरवियत्सुरलोकपाल-- मुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम्