द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात्। अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ
विमुक्तौ सागरप्रख्याद्रोणानीकादर्रिदमौ। अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा
अस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितात्। रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः। शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ
द्रोणग्राहहूदान्मुक्तौ शक्त्याशीविषसङ्कटात्। अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः
ज्याघोषतलनिर्हादाद्गदानिस्त्रिंशविद्युतः। द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव
बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः। तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः
महाशैलोच्चयां घोरां लङ्घयित्वा महानदीम्। निस्तीर्णावध्वगौ यद्वत्तद्वत्तौ तारितौ रणे
इति कृष्णौ महेष्वासौ प्रशस्तौ लोकविश्रुतौ। सर्वभूतान्यमन्यन्त द्रोणास्त्रबलवारणात्
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया। रुरुं वनान्ते लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम्
यथा हि मुखवर्णोऽयमनयोरिति मेनिरे। तव योधा महाराज हतमेव जयद्रथम्
लोहिताक्षौ महाबाहू संयुक्तौ कृष्णपाण्डवौ। सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः
शौरेरभीषुहस्तस्य पार्थस्य च धनुष्मतः। तयोरासीत्प्रभा राजन्सूर्यपावकयोरिव
हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः। समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके। सहसा पेततुःक्रुद्धौ क्षिप्रं श्येनाविवामिपम्
तौ दृष्ट्वा तु व्यतिक्रान्तौ हृषीकेशधनञ्जयौ। सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव
द्रोणेनाबद्धकवचो राजा दुर्योधनस्ततः। ययावेकरथेनाजौ हयसंस्करावित्प्रभो
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः। अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप
ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत्। प्रावाद्यन्त व्यतिक्रान्ते तव पुत्रे धनञ्जयम्
सिंहनादरवाश्चासञ्शङ्खशब्दविमिश्रिताः। दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम्
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः। ते प्राहृष्यन्त समरे दृष्ट्वा पुत्रं तव प्रभो
दृष्ट्वा दुर्योधनं कृष्णो व्यतिक्रान्तं सहानुगम्। अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह। दिष्ट्या च सफलाः पार्थ सर्वे कामा ह्यकामिताः
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम्। यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम्। वैरस्य दिष्ट्या सहजं मूलं छिन्धि दुरात्मनाम्
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम। सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम्। अप्यस्य युधि विक्रम्य च्छिन्द्यां मूर्धानमाहवे
अपि तस्य ह्यनर्हायाः परिक्लेशस्य माधव। कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे
अप्यहं तानि दुःखानि पूर्ववृत्तानि माधव। दुर्योधनं रणे हत्वा प्रतिमोक्ष्ये कथञ्चन
इत्येवंवादिनौ कृष्णौ हृष्टौ श्वेतान्हयोत्तमान्। प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम्