तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिकाब्रुवन्। त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः
रथं युङ्क्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम्। जयद्रथाय यात्येष कदर्थीकृत्य नो रणे
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः। अदृष्टपूर्वं सङ्ग्रामे तदृष्ट्वा महदद्भुतम्
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः। दुर्योधनापराघेन क्षत्रं कृत्स्ना च मेदिनी
विलयं समनुप्राप्ता तच्च राजा न बुध्यते। इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम्। तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित्
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति। विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्। नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम्
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः। यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत्
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत्। बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत्
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः। तूर्णात्तूर्णतरं ह्यश्वाः प्रावहन्वातरंहसः
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम्। क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम्
सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम्। दुर्योधनोऽत्वयात्पार्थं त्वरमाणो महाहवे
वातोद्धूतपताकं तं रथं जलदनिःस्वनम्। घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन्
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम्। शरार्ताश्चरणे योधाः शेकुः कृष्णौ न वीक्षितुम्
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह। तथाप्येनं निहंस्याव इति कृष्णावभाषताम्
इति कृष्णौ महाबाहू मिथः कथयतां तदा। सिन्धुराजमवेक्षन्तौ त्वत्पुत्रा बहु चुक्रुशुः
अतीत्य मरुधन्वानं प्रयान्तौ तृषितौ गजौ। पीत्वा वारि समाश्वस्तौ तथैवास्तामरिन्दमौ
व्याघ्रसिंहगजाकीर्णानतिक्रम्य च पर्वतान्। वणिजाविव दृश्येतां हीनमृत्यू जरातिगौ
तथाहि मुखवर्णोऽयमनयोरिति मेनिरे। तावका वीक्ष्य मुक्तौ तौ विक्रोशन्ति स्म सर्वशः
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात्। अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ
विमुक्तौ सागरप्रख्याद्रोणानीकादर्रिदमौ। अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा
अस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितात्। रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः। शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ
द्रोणग्राहहूदान्मुक्तौ शक्त्याशीविषसङ्कटात्। अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः
ज्याघोषतलनिर्हादाद्गदानिस्त्रिंशविद्युतः। द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव
बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः। तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः
महाशैलोच्चयां घोरां लङ्घयित्वा महानदीम्। निस्तीर्णावध्वगौ यद्वत्तद्वत्तौ तारितौ रणे
इति कृष्णौ महेष्वासौ प्रशस्तौ लोकविश्रुतौ। सर्वभूतान्यमन्यन्त द्रोणास्त्रबलवारणात्
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया। रुरुं वनान्ते लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम्