ततः प्रहस्य गोविन्दः साधुसाध्वित्यथाब्रवीत्। शरवेश्मनि पार्थेन कृते तस्मिन्महात्मना
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान्। योजयामास संहृष्टः पुनरेव रथोत्तमे
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः। समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम्
योजयित्वा हयांस्तस्य विधिदृष्टेन कर्मणा। रणे चचार गोविन्दस्तृणीकृत्य महारथान्
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः। दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन्
विनिःस्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः। घिगहोऽतिगतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक्
तत्सैन्यं सर्वतो दृष्ट्वा रोमहर्षणमद्भुतम्। त्वरध्वमिति चाक्रन्दन्नैतदस्तीति चावुवन्
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ। बालः क्रीडनकेनेव कदर्थीकृत्य नो बलम्
क्रोशतां यतमानानामसंसक्तौ परन्तपौ। दर्शयित्वाऽत्मनो वीर्यं प्रयातौ सर्वराजसु
यथा देवासुरे युद्धे तृणीकृत्य च दानवान्। इन्द्राविष्णू पुरा राजञ्जम्भस्य वधकाङ्क्षिणौ
तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिकाब्रुवन्। त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः
रथं युङ्क्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम्। जयद्रथाय यात्येष कदर्थीकृत्य नो रणे
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः। अदृष्टपूर्वं सङ्ग्रामे तदृष्ट्वा महदद्भुतम्
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः। दुर्योधनापराघेन क्षत्रं कृत्स्ना च मेदिनी
विलयं समनुप्राप्ता तच्च राजा न बुध्यते। इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम्। तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित्
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति। विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्। नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम्
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः। यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत्
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत्। बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत्
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः। तूर्णात्तूर्णतरं ह्यश्वाः प्रावहन्वातरंहसः
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम्। क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम्
सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम्। दुर्योधनोऽत्वयात्पार्थं त्वरमाणो महाहवे
वातोद्धूतपताकं तं रथं जलदनिःस्वनम्। घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन्
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम्। शरार्ताश्चरणे योधाः शेकुः कृष्णौ न वीक्षितुम्
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह। तथाप्येनं निहंस्याव इति कृष्णावभाषताम्
इति कृष्णौ महाबाहू मिथः कथयतां तदा। सिन्धुराजमवेक्षन्तौ त्वत्पुत्रा बहु चुक्रुशुः
अतीत्य मरुधन्वानं प्रयान्तौ तृषितौ गजौ। पीत्वा वारि समाश्वस्तौ तथैवास्तामरिन्दमौ
व्याघ्रसिंहगजाकीर्णानतिक्रम्य च पर्वतान्। वणिजाविव दृश्येतां हीनमृत्यू जरातिगौ
तथाहि मुखवर्णोऽयमनयोरिति मेनिरे। तावका वीक्ष्य मुक्तौ तौ विक्रोशन्ति स्म सर्वशः