तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः। अभ्यवर्तन्त पार्थं च समन्ताद्भरतर्षभ
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम्। सिंहनादेन महता सर्वतः पर्यवारयन्
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्भः। शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत्
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः। किमिहानन्तरं कार्यं साधिष्ठं तव रोचते
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा। भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः
मम त्वनन्तरं कृत्यं यद्वै तत्त्वं निबोध मे। हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्। ममाप्येतन्मतं पार्थ यदितं ते प्रभाषितम्
अहमावारयिष्यामि सर्वसैन्यानि केशव। त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम्
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः। गाण्डीवं धनुरादाय तस्थौ गिरिविवाचलः)
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः। इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम्
तमेकं रथवंशेन महता पर्यवारयन्। विकर्षन्तश्च चापानि विसृजन्तश्च सायकान्
शस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन्। छादयन्तः शरैः पार्थं मेघा इव दिवाकरम्
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम्। नरसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत। यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत्
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः। इषुभिर्बुभिस्तूर्णं सर्वानेव समावृणोत्
तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते। सङ्घर्षेण महार्चिष्मान्पावकः समजायत
तत्रतत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः। हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शन
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे। एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम्। पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम्
असङ्ख्येयमपारं च रजो नीरमतीव च। उष्णीषकमठं छत्रपताकाफेनमालिनम्
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम्। वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत्
अर्जुने धरणीं प्राप्ते हयहस्ते च केशवे। एतदन्तरमासाद्य कथं पार्थो न घातितः
सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः। रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा
स पार्थः पार्थिवान्सर्वान्भूमिस्थोपि रथस्थितान्। एको निवारयामास लोभः सर्वगुणानिव।।]
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम्। असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत्
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन। परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम्
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम्। अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम्
[हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्। सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम्
कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम्। आगच्छन्नारदमुनिर्दर्शनार्थं कृतं क्षणात्।।]
शरवंशं शरस्थूणं शराच्छादनमद्भुतम्। शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत्