अस्त्रे ते वारुणाग्नेये यदा बाणैः समाहिते। न यावदभ्यपद्येतां व्यावर्तदथ भास्करः
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम्
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः। मत्स्याः साल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः। द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम्
रजसा संवृते लोके शरजालसमावृते।। सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत।। `तेनान्तरेण पार्थस्तु रणे जित्वा महारिपून्
अतिक्रान्तस्तदा युद्धं कृत्वा पर्यवतस्थिवान्
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम्। आच्छादयेतां संरब्धौ सिंहनादं च चक्रतुः
तयोस्तु धनुषी मुष्टौ भल्लाभ्यां श्वेतवाहनः। चिच्छेद समरे तूर्णं भूय एव धनञ्जयः। अथान्यैर्विशिखैस्तूर्णं ध्वजौ च कनकोज्ज्वलौ
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा। पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः। धनुषी चिच्छिदे तूर्णं भूय एव धनञ्जयः
तथान्यैर्विशिखैस्तूर्णं रुक्मपुङ्खैः शिलाशितैः। जघानाश्वांस्तथा सूतौ पार्ष्णी च सपदानुगौ
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत। स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः
विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान्। हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः
अभ्यवर्तत सङ्ग्रामे भ्रातुर्वधमनुस्मरन्। गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः
अनुविन्दस्तु गदया ललाटे मधुसूदनम्। स्पष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम्
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः। निचकर्त स सञ्छन्नः पपाताद्रिचयो यथा
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः। अभ्यद्रुवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान्
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ। व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये
तयोः सेनामतिक्रम्य कृच्छ्रादिव धनञ्जयः। विबभौ जलदं हित्वा दिवाकर इवोदितः
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः। अभ्यवर्तन्त पार्थं च समन्ताद्भरतर्षभ
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम्। सिंहनादेन महता सर्वतः पर्यवारयन्
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्भः। शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत्
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः। किमिहानन्तरं कार्यं साधिष्ठं तव रोचते
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा। भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः
मम त्वनन्तरं कृत्यं यद्वै तत्त्वं निबोध मे। हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्। ममाप्येतन्मतं पार्थ यदितं ते प्रभाषितम्
अहमावारयिष्यामि सर्वसैन्यानि केशव। त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम्
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः। गाण्डीवं धनुरादाय तस्थौ गिरिविवाचलः)
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः। इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम्