उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ। `निकृन्ततोः शरैस्तीक्ष्णैर्द्रोणसात्यकयो रणे
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ। स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ। अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः
गर्जितोत्कृष्टसन्नादाः शङ्खदुन्दुभिनिःस्वनाः। उपारमन्महाराज व्याजहार न कश्चन
तुष्णींभूतान्यनौकानि योधा युद्धादुपारमन्। ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः
रथिनो हस्तियन्तारो हयारोहाः पदातयः। अवैक्षन्ताचलैर्नेत्रैः परिवार्य नरर्षभौ
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम्। तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः। ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः। विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु। गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत
सबलाकाः सखद्योताः सैरावतशतहदाः। अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः। तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः
विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः। सिद्धचारणसङ्खाश्च विद्याधरमहोरगाः
गन्धर्वा दानवा यक्षा राक्षसाप्सरसः खगाः'। गतप्रत्यागताक्षेपैश्चितैरस्त्रविघातिभिः। विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ। अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे। पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युतेः
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः। सज्यं चकार तदपि चिच्छेदास्य स सात्यकिः
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत। सज्यं सज्यं धनुश्चास्य चिच्छेद निशिथैः शरैः
एवमेकशतं छिन्नं धनुषां दृढधन्विना। न चान्तरं तयोर्दृष्टं सन्धाने च्छेदनेऽपि च
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम्। युयुधानस्य राजेन्द्र मनसैतदचिन्तयत्
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये। भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे
तं चास्य मनसा द्रोणः पूजयामास विक्रमम्। लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः। न तामालक्षयामासुर्लघुतां शीघ्रचारिणः
देवाश्च युयुधानस्य गन्धर्वाश्च विशाम्पते। सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत्
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः। अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः। जघान निशितैर्बाणैस्तदद्भुतमिवाभवत्
तस्यातिमानुषं कर्म दृष्ट्वाऽन्यैरसमं रणे। युक्तं योगेन योगज्ञास्तावकाः समपूजयन्
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः। तमाचार्योऽथ सम्भ्रान्तोऽयोधयच्छत्रुतापनः
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः। वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत्
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः। दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत्
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ। न विचेरुस्तदाऽऽकाशे भूतान्याकाशगान्यपि