ततस्तौ द्रोणशैनेयौ युयुधाते परन्तपौ। शरैरनेकसाहस्रैस्ताडयन्तौ परस्परम्
इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ। पूरयामासतुर्वीरावुभौ दश दिशः शरैः। मेघाविवातपापाये धाराभिरितरेतरम्
न स्म सूर्यस्तदा भाति न ववौ च समीरणः। हषुजालावृतं घोरमन्धकारं समन्ततः
अनाधृष्यमिवान्येषां शूराणामभवत्तदा। अन्धकारीकृते लोके द्रोणशैनेययोः शरैः
तयोः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा। नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः
इषूणां सन्निपातेन शब्दो धाराभिघातजः। शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः
नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ। आशीविषविदष्टानां सर्पाणामिव भारत
तयोर्ज्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः। अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी। रुक्मपुङ्खैः शरैछन्नाश्चित्ररूपा बभुस्तदा
निर्मलानामजिह्मानां नाराचानां विशाम्पते। निर्मुक्ताशीविपाभानां सम्पातोऽभूत्सुदारुणः
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ। `निकृन्ततोः शरैस्तीक्ष्णैर्द्रोणसात्यकयो रणे
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ। स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ। अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः
गर्जितोत्कृष्टसन्नादाः शङ्खदुन्दुभिनिःस्वनाः। उपारमन्महाराज व्याजहार न कश्चन
तुष्णींभूतान्यनौकानि योधा युद्धादुपारमन्। ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः
रथिनो हस्तियन्तारो हयारोहाः पदातयः। अवैक्षन्ताचलैर्नेत्रैः परिवार्य नरर्षभौ
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम्। तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः। ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः। विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु। गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत
सबलाकाः सखद्योताः सैरावतशतहदाः। अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः। तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः
विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः। सिद्धचारणसङ्खाश्च विद्याधरमहोरगाः
गन्धर्वा दानवा यक्षा राक्षसाप्सरसः खगाः'। गतप्रत्यागताक्षेपैश्चितैरस्त्रविघातिभिः। विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ। अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे। पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युतेः
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः। सज्यं चकार तदपि चिच्छेदास्य स सात्यकिः
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत। सज्यं सज्यं धनुश्चास्य चिच्छेद निशिथैः शरैः
एवमेकशतं छिन्नं धनुषां दृढधन्विना। न चान्तरं तयोर्दृष्टं सन्धाने च्छेदनेऽपि च
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम्। युयुधानस्य राजेन्द्र मनसैतदचिन्तयत्
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये। भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे