यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः। तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्। द्रोणो द्रुपद पुत्रस्य खङ्गं च दशभिः शरैः
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली। ध्वजं छत्रं च भल्लाभ्यां तथा तौ पार्ष्णिसारथी
अथास्मै त्वरितो बाणमपरं जीवितान्तकम्। धृष्टद्युम्नाय चिक्षेप वज्रं वज्रधरो यथा
तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः। ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत्
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष। द्रोणाद्वै मोचयामास पाञ्चाल्यं शिनिपुङ्गवः
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे। शराणां त्वरितो द्रोणः षड्विंशत्या समार्पयत्
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सृञ्जयान्। प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे
ततः सर्वे रथास्तूर्णं पाञ्चाल्या जयगृद्धिनः। सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन्
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते। तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः। नरव्याघ्रं शिनेः पौत्रं द्रोणः किमकरोद्युधि
सम्प्रस्रुतक्रोधविषो व्यादितास्यशरासनः। तीक्ष्णधारेषुदशनः सितनाराचदंष्ट्रवान्
संरम्भामर्षताम्राक्षो महोरग इव श्वसन्। नरवीरः प्रमुदितः शोणैरश्वैर्महाजवैः
उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम्। रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत्
शरपातमहावर्षं रथघोषबलाहकम्। कार्मुकैरावृतं राजन्नाराचबहुविद्युतम्
शक्तिखङ्गाशनिधरं क्रोधवेगसमुत्थितम्। द्रोणमेघमनावार्यं हयमारुतचोदितम्
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः। उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः
एनं वै ब्राह्मणं शूरं स्वकर्मण्यनवस्थितम्। आश्रयं धार्तराष्ट्रस्य धर्मराजभयावहम्
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्। आचार्यं राजपुत्राणां सततं शूरमानिनम्
एवमुक्तस्ततः सूतः सात्यकस्यावहद्रथम्'। ततो रजतसङ्काशा माधवस्य हयोत्तमाः। द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः
ततस्तौ द्रोणशैनेयौ युयुधाते परन्तपौ। शरैरनेकसाहस्रैस्ताडयन्तौ परस्परम्
इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ। पूरयामासतुर्वीरावुभौ दश दिशः शरैः। मेघाविवातपापाये धाराभिरितरेतरम्
न स्म सूर्यस्तदा भाति न ववौ च समीरणः। हषुजालावृतं घोरमन्धकारं समन्ततः
अनाधृष्यमिवान्येषां शूराणामभवत्तदा। अन्धकारीकृते लोके द्रोणशैनेययोः शरैः
तयोः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा। नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः
इषूणां सन्निपातेन शब्दो धाराभिघातजः। शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः
नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ। आशीविषविदष्टानां सर्पाणामिव भारत
तयोर्ज्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः। अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी। रुक्मपुङ्खैः शरैछन्नाश्चित्ररूपा बभुस्तदा
निर्मलानामजिह्मानां नाराचानां विशाम्पते। निर्मुक्ताशीविपाभानां सम्पातोऽभूत्सुदारुणः