तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः। न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष। धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः। आससाद रणे पार्थं केशवं च महारथम्
ततः सम्प्रहरन्वीरो गदामुद्यम्य भारत। रथमावार्य गदया केशवं समताडयत्
गदया ताडितं दृष्ट्वा केशवं परवीरहा। अर्जुनोऽथ भृशं क्रुद्धः सोऽम्बष्ठं प्रति भारत
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम्। छादयामास समरे मेघः सूर्यमिवोदितम्
अथापरैः शरैश्चापि गदां तस्य महात्मनः। अचूर्णयत्तदा पार्थस्तिदद्भुतमिवाभवत्
अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम्। अर्जुनं वासुदेवं च पुनः पुनरताडयत्
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ। चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा
स पपात हतो राजन्वसुधामनुनादयन्। इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः
अम्बष्ठे तु तदा भग्ने तव सैन्यमभज्यत
रथानीकावगाढश्च वारणाश्वशतैर्वृतः। अदृश्यत पदा पार्थो घनैः सूर्य इवावृतः
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे। न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु
स तेन वर्मणा गुप्तो वृत्रं देवरिपुं तदा। जघान समरेऽभीतः शक्रो देवाग्रणीस्तदा
तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ। अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः। बृहस्पतिरथोवाच अग्निवेश्याय धीमते
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते। तवाह्य देहरक्षार्थं मन्त्रेण नृपसत्तम
एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिम्। पुनरे वचः प्राह शनैराचार्यपुङ्गवः
ब्रह्मसूत्रेण बध्नामि कथचं तव भारत। हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे
यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये। शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव
बद्धा तु कवचं तस्य मन्त्रेण विधिपूर्वकम्। प्रेषयामास राजानं युद्धाय महते द्विजः
स सन्नद्धो महाबाहुराचार्येण महात्मना। `प्रस्थितः सहसा राजन्यत्र यातो धनञ्जयः
रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम्। तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम्
अश्वानां नियुतेनैव तथाऽन्यैश्च महारथैः। वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति
नानावादित्रघोषेण यथा वैरोचनिस्तथा
ततः शब्दो महानासीत्सैन्यानां तव भारत। अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम्
ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः। पारावतसवर्णाश्च रक्तशोणाश्च संयुगे
पारावतसवर्णास्ते रक्तशोणविमिश्रिताः। हयाः शुशुभिरे राजन्मेघा इव सविद्युतः
धृष्टद्युम्नस्तु सम्प्रेक्ष्य द्रोणमभ्याशमागतम्। असिचर्माददे वीरो धनुरुत्सृज्य भारत
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा। ईषायाः समतिक्रम्य द्रोणस्य रथमाविशत्
अतिष्ठद्युगमध्ये स युगसन्नहनेषु च। जघनार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन्
खङ्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः। न ददार्शान्तरं द्रोणस्तदद्भुतमिवाभवत्