दार्वातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः। ते न शक्याः स्म सङ्ख्यातुं व्राताः शतसहस्रशः
अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः। अवाकिरंश्च ते म्लेच्छा नानायुद्धविशारदाः
तेषामपि ससर्जाशु शरवृष्टिं धनञ्जयः। सृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः। मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान्। म्लेच्छानशातयत्सर्वान्समेतानस्त्रतेजसा
शरैश्च शतशो विद्धास्ते सङ्घा गिरिचारिणः। प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः
गजाश्वसादिम्लेच्छानां पतितानां शितैः शरैः। बकाः कङ्का वृका भूमावपिबन्रुधिरं मुदा
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम्। शरवर्षप्लवां घोरां केशशैवलशाद्वलाम्। प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम्
छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसन्निभाम्। प्राकरोद्गजसम्बाधां नदीमुत्तरशोणिताम्
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम्। यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे। तथाऽऽसीत्पृथिवी सर्वा शोणितेन परिप्लुता
षट्सहस्रान्हयान्वीरान्पुनर्दशशतान्वरान्। प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः। शेरते भूमिमासाद्य शैला वज्रहता इव
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः। प्रभिन्न इव मातङ्गो मृद्गन्नलवनं यथा
भुरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम्। निर्दहेदनलोऽरण्यं यथा वायुसमीरितः
सेनारण्यं तव तथा कृष्णानिलसमीरितः। शरार्चिरदहत्क्रुद्धः पाण्डवोऽग्निर्धनञ्जयः
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम्। प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः। वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम्
ततः प्रावर्तत नदी शोणितौघतरङ्गिणी। नराश्वद्विपकायेभ्यः पर्वतेभ्य इवापगा
अस्थिशर्करसम्बाधा ध्वजवृक्षा रथहदा। सञ्छिन्नशीर्षपाणाणा हस्तिहस्तमहाग्रहा
मांसमज्जास्थिपङ्काढ्यां हताश्वमकराकुला। उष्णीषफेनसञ्छन्ना शरघोरझषाकुला
रुद्रस्याक्रीडसदृशीं भूमिं कुर्वन्विभीषणाम्'। प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत्
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः। न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष। धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः। आससाद रणे पार्थं केशवं च महारथम्
ततः सम्प्रहरन्वीरो गदामुद्यम्य भारत। रथमावार्य गदया केशवं समताडयत्
गदया ताडितं दृष्ट्वा केशवं परवीरहा। अर्जुनोऽथ भृशं क्रुद्धः सोऽम्बष्ठं प्रति भारत
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम्। छादयामास समरे मेघः सूर्यमिवोदितम्
अथापरैः शरैश्चापि गदां तस्य महात्मनः। अचूर्णयत्तदा पार्थस्तिदद्भुतमिवाभवत्
अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम्। अर्जुनं वासुदेवं च पुनः पुनरताडयत्
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ। चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा
स पपात हतो राजन्वसुधामनुनादयन्। इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः
अम्बष्ठे तु तदा भग्ने तव सैन्यमभज्यत