वासितामनुसंप्राप्तो यूथपो बलिनां वरः। स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाह स पार्थिवः
साल्वराजो महाबाहुरमर्षेण प्रचोदितः। ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः
तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन्। विततेषुधनुष्पाणिर्विकुञ्चितललाटभृत्
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः। निवर्तयामास रथं साल्वं प्रति महारथः
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते। प्रेक्षकाः समपद्यन्त भीष्मसाल्वसमागमे
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे। अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः। साल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं साल्वेन ते नृपाः। विस्मिताः समपद्यन्त साधुसाध्विति चाब्रुवन्
लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः। अपूजयन्त संहृष्टा वाग्भिः साल्वं नराधिपम्
क्षत्रियाणां ततो वाचः श्रुत्वा परपुञ्जयः। क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः। यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट्
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः। तेनाश्वांश्चतुरोऽमृद्गात्साल्वराजस्य भूपते
अस्त्रैरस्त्राणि संवार्य साल्वराजस्य कौरवः। भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम्
अस्त्रेण चास्याथैन्द्रेण न्यवधीत्तुरगोत्तमान्। कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम्। ततः साल्वः स्वनगरं प्रययौ भरतर्षभ
स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा। राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जयाः। एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः। विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम्
यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः। सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप
वनानि सरितश्चैव शैलांश्च विनिधान्द्रुमान्। अक्षतः क्षपयित्वाऽरीन्सङ्ख्येऽसङ्ख्येयविक्रमः
आनयामास काश्यस्य सुताः सागरगासुतः। स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः
यथा दुहितश्चैव परिगृह्य ययौ कुरून्। आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया
ताः सर्वगुणसंपन्ना भ्राता भ्रात्रे यवीयसे। भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः
एवं धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम्। भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे
सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान्। विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता। ज्येष्ठा तासामिदं वाक्यमब्रवीद्धसती तदा
मया सौभपतिः पूर्वं मनसा हि वृतः पतिः। तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः
मया वरयितव्योऽभूत्साल्वस्तस्मिन्स्वयंवरे। एतद्विज्ञाय धर्मज्ञ धर्मतत्त्वं समाचर
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि। चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः
अन्यसक्ता त्वियं कन्या ज्येष्ठा त्वम्बा मया जिता। वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना
निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तिनी। इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम्