सा ज्वलन्ती महोल्केव तमासाद्य महारथम्। सविस्फुलिङ्गा निर्भिद्य निपपात महीतले
शक्या त्वभिहतो गाढं मूर्च्छयाऽभिपरिप्लुतः। समाश्वास्य महातेजाः सृक्विणी परिलेलिहन्
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः। साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः
रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः। सुदक्षिणं तं काम्भोजं मोघसङ्कल्पविक्रमम्। बिभेद हृदि बाणेन पृथुधारेण पाण्डवः
स भिन्नवर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः। पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः। निर्भग्न इव वातेन कर्णिकारो हिमात्यये। विशीर्णः पतितो राजा प्रसार्य विपुलौ भुजौ
शेते स्म निहतो भूमौ काम्भोजास्तरणोचितः। महार्हाभरणोपेतः सानुमानिव पर्वतः
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः। पुत्रः काम्भोजराजस्य पार्थेन विनिपातितः
धारयन्नग्निसङ्काशां शिरसा काञ्चनीं स्रजम्। अशोभत महाबाहुर्व्यसुर्भूमौ निपातितः
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते। हतं श्रुतायुधं दृष्ट्वा काम्भोजं च सुदक्षिणम्
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ। वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ
श्रुतायुषश्च निधनं वधश्चेवाश्रुतायुषः। लोकविस्मापनमभूत्समुद्रस्येव शोषणम्
तयोः पदानुगान्हत्वा पुनः पञ्चशतं रथान्। प्रत्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान्
श्रुतायुषं च निहतं प्रेक्ष्य चैवाश्रुतायुषम्। नियतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रति जग्मतुः। किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ
तावर्जुनो मुहूर्तेन शरैः सन्नतपर्वभिः। प्रैषयत्परमक्रुद्धो यमस्य सदनं प्रति
लोडयन्तमनीकानि द्विपं पद्मसरो यथा। नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः
अङ्गास्तु गजसङ्घैश्च पाण्डवं पर्यवारयन्। क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः। प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः। निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान्
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः। बभौ कनकपाषाणा भुजगैरिव संवृता
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च। पतमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः
शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः। अदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः। गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः। रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः। सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः। भृशं त्रस्ताश्च बहवः स्वानेव ममृदुर्गजाः
सोत्तरायुधिनश्चैव द्विपास्तीक्ष्णविषोपमाः। विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः
यवनाः पारदाश्चैव शकाश्च सह बाह्लिकैः। काकवर्णा दुराचाराः स्त्रीलोलाः कलहप्रियाः
द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः। गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः