स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम्। अथैनं सप्तसप्तत्या नाराचानां समार्पयत्
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च। आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः
अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः। वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः। शरैरनेकसाहस्रैः पीडयामास भारत
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः। विव्याध चैनं सप्तत्या नाराचानां महाबलः
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः। अभ्यद्रुवद्रुणे पार्थं गदामुद्यम्य वीर्यवान्
वरुणस्यत्मजो वीरः स तु राजा श्रुतायुधः। पर्णाशाजननी यस्य शीततोया महानदी
तस्य माताऽब्रवीद्राजन्वरुणं पुत्रकारणात्। अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम्। दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन। सर्वेणावश्यमर्तव्यं जातेन सरितां वरे
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा। अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम्। यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः
उवाच चैनं भगवान्पुनरेव जलेश्वरः। अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति
हन्यादेषा प्रतीपं हि प्रयोक्तारमपि प्रभो। न चाकरोत्स तद्वाक्यं प्राप्ते काले श्रुतायुधः
स तया वीरघातिन्या जनार्दनमताडयत्। प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान्। नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः
ततोऽर्जुनः क्षुरप्राभ्यां भुजौ परिघसन्निभौ। चिच्छेद पाण्डवः शीघ्रं जलेश्वरसुतस्य वै
स ज्वलन्ती महोल्केव समासाद्य जनार्दनम्'। प्रत्यागता महावेगा कृत्येव दुरधिष्ठिता
जघान चास्थितं वीरं श्रुतायुधममर्षणम्। `स पपात हतो भूमौ विशिरा विभुजो बली। सम्भग्न इव वातेन बहुशाखो वनस्पतिः
सा विस्फुरन्ती ज्वलिता वज्रवेगसमा गदा'। हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत
गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम्। हाहाकारो महांस्तत्र सैन्यानां समजायत। स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिन्दमम्
अयुध्यमानाय ततः केशवाय नराधिप। क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा
यथोक्तं वरुणेनाजौ तथा स निधनं गतः। व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम्
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः। सम्भग्न इव वातेन बहुशाखो वनस्पतिः
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः। प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम्
ततः काम्भोजराजस्य पुत्रः शूरः सुदक्षिणः। अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम्
तस्य पार्थः शरान्सप्त प्रेषयामास भारत। ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम्
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे। अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः। तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः। स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत्
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः। सघण्टां प्राहिणोद्धोरां क्रुद्धो गाण्डीवधन्वने