यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिःस्वनात्। तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः। एवं सवाहनं सर्वमाविग्नमभवद्बलम्
सीदन्ति स्म नरा राजञ्शङ्खशब्देन मारिष। विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः
ततः कपिर्महानादं सहभूतैर्ध्वजालयैः। अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान्
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह। पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः
नानावादित्रसंहादैः क्ष्वेडितास्फोटिताकुलैः। सिंहनादैः समुत्क्रुष्टैः समाधूतैर्महारथैः
तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने। अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप। प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम्
मारुतेनेव महता मेघानीकं व्यदीर्यत। प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम्
प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः। कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः। सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागं चोदयन्तस्तथाऽपरे। शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः
तव योघ हतोत्साहा विभ्रान्तमनसस्तदा
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्च्छितः। कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत्
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः। तेनान्तरेषु बीभत्सुर्विवेशामित्रवाहिनीम्
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा। धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः। नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः
तं दृष्ट्वा तु तथाऽऽयान्तंशूरो राजा श्रुतायुधः। अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः
स पार्थं त्रिभिरानर्च्छत्सप्तत्या च जनार्दनम्। क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत्
ततोऽर्जुनो नवत्या तु शराणां नतपर्वणाम्। आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम्
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम्। अथैनं सप्तसप्तत्या नाराचानां समार्पयत्
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च। आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः
अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः। वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः। शरैरनेकसाहस्रैः पीडयामास भारत
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः। विव्याध चैनं सप्तत्या नाराचानां महाबलः
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः। अभ्यद्रुवद्रुणे पार्थं गदामुद्यम्य वीर्यवान्
वरुणस्यत्मजो वीरः स तु राजा श्रुतायुधः। पर्णाशाजननी यस्य शीततोया महानदी
तस्य माताऽब्रवीद्राजन्वरुणं पुत्रकारणात्। अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम्। दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन। सर्वेणावश्यमर्तव्यं जातेन सरितां वरे