अनन्तरं च काम्भोजो जलसन्धश्च मारिष। दुर्योधनश्च कर्णश्च तदनन्तरमेव च
ततः शतसहस्राणि योदानानमनिवर्तिनाम्। व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम्
तेषां च पृष्ठतो राजा बलेन महता वृतः। जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः। नात्र तस्याभवद्भोदो जुगोपैनं ततः स्वयम्
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः। धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः। `तस्य सैन्यस्य सर्वस्य नेता गोप्ता च वीर्यवान्
ताकिनं शोणहयं वेदीकृष्णाजिनध्वजम्। द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत्। द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम्
सशैलसागरवनां नानाजनपदाकुलाम्। ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे
बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिःस्वनमद्भुतानुरूपम्। अहितहृदयभेदनं महद्वै शकटमवेक्ष्य कृतं ननन्द राजा
तयोः शङ्खप्रणादेन तव सैन्ये विशाम्पते। आसन्संहृष्टरोमाणः कम्पिता गतचेतसः
यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिःस्वनात्। तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः। एवं सवाहनं सर्वमाविग्नमभवद्बलम्
सीदन्ति स्म नरा राजञ्शङ्खशब्देन मारिष। विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः
ततः कपिर्महानादं सहभूतैर्ध्वजालयैः। अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान्
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह। पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः
नानावादित्रसंहादैः क्ष्वेडितास्फोटिताकुलैः। सिंहनादैः समुत्क्रुष्टैः समाधूतैर्महारथैः
तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने। अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप। प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम्
मारुतेनेव महता मेघानीकं व्यदीर्यत। प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम्
प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः। कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः। सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागं चोदयन्तस्तथाऽपरे। शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः
तव योघ हतोत्साहा विभ्रान्तमनसस्तदा
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्च्छितः। कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत्
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः। तेनान्तरेषु बीभत्सुर्विवेशामित्रवाहिनीम्
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा। धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः। नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः
तं दृष्ट्वा तु तथाऽऽयान्तंशूरो राजा श्रुतायुधः। अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः
स पार्थं त्रिभिरानर्च्छत्सप्तत्या च जनार्दनम्। क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत्
ततोऽर्जुनो नवत्या तु शराणां नतपर्वणाम्। आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम्