तथा मम विलापानां नायं दुर्योधनः स्मरेत्। हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ वै
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शनात्। दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः
सेनां दृष्ट्वाऽभिभूतां मे शैनेयेनार्जुनेन च। शून्यान्दृष्ट्वा रथोपस्थान्मन्ये शोचन्ति पुत्रकाः
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान्। अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः
आचक्ष्व मम तत्सर्वं कुशलो ह्यसि सञ्जय। यदोपयाताः सायाह्ने कृत्वा पार्थस्य किल्बिषं
अभिमन्यौ हते तात कथमासीन्मनो हि वः
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः। अपकृत्य महत्तात सोढुं शक्ष्यन्ति मामकाः
किन्नुः दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्। दुःशासनः सौबलश्च तेषामेवं गते सति
सर्वेषां समवेतानां पुत्राणां मम सञ्जय। यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम्
लोभानुगस्य दुर्बुद्धेः क्रोधेन विकृतात्मनः। राज्यकामस्य मूढस्य रागोपहतचेतसः। दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय
यावत्तु शक्यते कर्तुमन्तरज्ञैर्जनाधिपैः। क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम्। कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः
ते चैकसप्तसाहस्रास्त्रिसाहस्राश्च सैन्धवाः
मत्तानां सुविरूढानां हस्त्यारोहैर्विशारदैः। हस्तिनां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम्
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव। अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ। सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्चविस्तृतः। व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः
नानानृपतिभिर्वीरैस्तत्रतत्र व्यवस्थितैः। रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम्
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः पुनः कृतः। सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः। सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः
अनन्तरं च काम्भोजो जलसन्धश्च मारिष। दुर्योधनश्च कर्णश्च तदनन्तरमेव च
ततः शतसहस्राणि योदानानमनिवर्तिनाम्। व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम्
तेषां च पृष्ठतो राजा बलेन महता वृतः। जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः। नात्र तस्याभवद्भोदो जुगोपैनं ततः स्वयम्
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः। धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः। `तस्य सैन्यस्य सर्वस्य नेता गोप्ता च वीर्यवान्
ताकिनं शोणहयं वेदीकृष्णाजिनध्वजम्। द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत्। द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम्
सशैलसागरवनां नानाजनपदाकुलाम्। ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे
बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिःस्वनमद्भुतानुरूपम्। अहितहृदयभेदनं महद्वै शकटमवेक्ष्य कृतं ननन्द राजा
तयोः शङ्खप्रणादेन तव सैन्ये विशाम्पते। आसन्संहृष्टरोमाणः कम्पिता गतचेतसः