अच्छिनच्छरवर्षेण महता लोमवाहिना। ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम्
ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः। स तं बाणमयं वर्षं शरैरावार्य सर्वतः
ततः सर्वान्महीपालान्पर्यविध्यत्त्रिभिस्त्रिभिः। एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन्। तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम्
पश्यतां लोकवीराणां शरशक्तिसमाकुलम्। स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि
चिच्छेद समरे भीष्मः शतशोथ सहस्रशः। तस्यातिपुरुषं कर्म लाघवं रथचारिणः
रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन्। `अक्षतः क्षपयित्वान्यानसङ्ख्येयपराक्रमः
आनिनाय स काश्यस्य सुताः सागरगासुतः।' तान्विनिर्जित्य तु रणे सर्वशस्त्रभृतां वरः
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति। ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः
अभ्यगच्छदमेयात्मा भीष्मं शान्तनवं रणे। वारणं जघने भिन्दन्दन्ताभ्यामपरो यथा
वासितामनुसंप्राप्तो यूथपो बलिनां वरः। स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाह स पार्थिवः
साल्वराजो महाबाहुरमर्षेण प्रचोदितः। ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः
तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन्। विततेषुधनुष्पाणिर्विकुञ्चितललाटभृत्
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः। निवर्तयामास रथं साल्वं प्रति महारथः
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते। प्रेक्षकाः समपद्यन्त भीष्मसाल्वसमागमे
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे। अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः। साल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं साल्वेन ते नृपाः। विस्मिताः समपद्यन्त साधुसाध्विति चाब्रुवन्
लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः। अपूजयन्त संहृष्टा वाग्भिः साल्वं नराधिपम्
क्षत्रियाणां ततो वाचः श्रुत्वा परपुञ्जयः। क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः। यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट्
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः। तेनाश्वांश्चतुरोऽमृद्गात्साल्वराजस्य भूपते
अस्त्रैरस्त्राणि संवार्य साल्वराजस्य कौरवः। भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम्
अस्त्रेण चास्याथैन्द्रेण न्यवधीत्तुरगोत्तमान्। कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम्। ततः साल्वः स्वनगरं प्रययौ भरतर्षभ
स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा। राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जयाः। एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः। विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम्
यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः। सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप
वनानि सरितश्चैव शैलांश्च विनिधान्द्रुमान्। अक्षतः क्षपयित्वाऽरीन्सङ्ख्येऽसङ्ख्येयविक्रमः