कर्णदुःशासनमतः सौबलस्य च दुर्मतेः। प्रत्याख्यातो महाबाहुःकुलान्तकरणेन वै
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः। अन्ववर्तत मां हित्वा कृष्टः कालेन दुर्मतिः
न ह्यहं युद्धमिच्छामि विदुरो द्रोण एव वा। बाह्लीकः सोमदत्तो वा भीष्मो द्रौणायनिस्तथा
शलो भूरिश्रवाश्चैव पुरुमित्रो विविंशतिः। जयः कृपो वा धर्मात्मा ये चान्ये मम बान्धवाः
एतेषां मतमास्थाय यदि वत्स्यति पुत्रकः। एतेभ्यश्च मदूर्ध्वं च अभोक्ष्यद्वसुधामिमाम्
श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः। कुलीनाः सम्मताः प्राज्ञाः सुखं जीवन्ति मानवाः
धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम्। प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते
अर्हास्ते पृथिवीं भोक्तुं समर्थाः साधनेऽपि च। तेषामपि समुद्रान्ता पितृपैतामही मही
न च त्वाऽभिभविष्यन्ति हित्वा धर्मं पृथात्मजाः। नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि
सन्ति मे ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः। शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः
द्रोणस्याथ विकर्णस्य बाह्लीकस्य कृपस्य च। अन्येषां चैव वृद्धानां भरतानां महात्मनाम्। त्वदर्थमब्रवं तात न जहुर्वचनानि ते
कं वा त्वं मन्यसे तेषां यस्त्वां ब्रूयादतोऽन्यथा। कृष्णो न धर्मं सञ्जह्यात्सर्वे ते हि तदन्वयाः
मयाऽपि चोक्तास्ते वीरा वचनं धर्मसंहितम्। नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान्। न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम्
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः। उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः। अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभूः। द्रौपदेया विराटश्च द्रुपदश्च महारथः
यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः। क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः
दिव्यमस्त्रं विकुर्वाणान्प्रसहेद्वा परान्मम। अन्यो दुर्योधनात्कार्णाच्छकुनेश्चापि सौबलात्। दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम्
येषां वचनकृत्स स्याद्विष्वक्सेनो रथे स्थितः। सन्नद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः
तथा मम विलापानां नायं दुर्योधनः स्मरेत्। हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ वै
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शनात्। दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः
सेनां दृष्ट्वाऽभिभूतां मे शैनेयेनार्जुनेन च। शून्यान्दृष्ट्वा रथोपस्थान्मन्ये शोचन्ति पुत्रकाः
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान्। अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः
आचक्ष्व मम तत्सर्वं कुशलो ह्यसि सञ्जय। यदोपयाताः सायाह्ने कृत्वा पार्थस्य किल्बिषं
अभिमन्यौ हते तात कथमासीन्मनो हि वः
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः। अपकृत्य महत्तात सोढुं शक्ष्यन्ति मामकाः
किन्नुः दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्। दुःशासनः सौबलश्च तेषामेवं गते सति
सर्वेषां समवेतानां पुत्राणां मम सञ्जय। यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम्
लोभानुगस्य दुर्बुद्धेः क्रोधेन विकृतात्मनः। राज्यकामस्य मूढस्य रागोपहतचेतसः। दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय